SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः । दिगद्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः॥५६॥ इति चण्डिकाष्टकप्रतिहाराः । अष्टपत्राम्बुजस्योचे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥ ऊर्ध्वहस्तौ प्रकर्त्तव्यौ देव्याः पङ्कजधारिणौ । (२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥ इति लक्ष्म्या मूर्तिः । क्षेत्रे कोल्ला(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते । लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९॥ दक्षिणाधःकरे पात्रमूर्व कौमोदकी भवेत् । वामोर्चे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६॥ __ इति महालक्ष्मीः । एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता । प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥ अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता । [इति महाविद्या] वराक्षाब्जे पुस्तकश्च सरस्वती शुभावहा ॥ ६२ ।। [इति सरस्वती] हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः । स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥ इति ब्राह्मी। माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता । कपालशूलखटाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥ ____ इति माहेश्वरी। (१) 'नाम' इति स्यात् । (२) 'वामेऽमृतघटं' इति स्यात् । (३) '-पुरादन्ये' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy