Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ रूपमण्डने समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् । ( मनोत्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः !)॥४४॥* [इति लिङ्गोचिता मणयः] शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् । दारुजं वसुसिद्धयर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥ [इति चलाचललिङ्गम्] एकाङ्गुलादिपञ्चान्तं चललिङ्गश्च कन्यसम् । षट्पादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६॥ [इति चललिङ्गम्] नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् । स्थिरं तत् स्थापयेद् गेहे (३)गण्यां हे दूरकृद् यतः ॥ ४७ ॥ [इति स्थिरलिङ्गम् ] (४)वाणलक्षणहीनेऽपि यत्र वै रोचते मनः । तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥ [इति लक्षणादिहीनस्यापि पूज्यत्वम् ] रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः । नवान्तं नवलिङ्गञ्च वृद्धिी मुद्गमानिका ॥ ४९॥ [इति रखलिङ्गमानम् ] धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥ [इति धातुलिङ्गमानम् ] दृढकाष्ठमयं लिङ्गं कर्त्तव्यं षोडशाङ्गुलम् । षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥ [इति दारवलिङ्गमानम्] (१) 'दीप्तिः सान्निध्यकारणम्' इति स्यात् । (२) 'लिङ्गं' इति स्यात् । (३) 'गृहांहोदूरकृद्' इति स्यात् । (४) 'वर्ण-' इति स्यात् । * अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339