________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
रूपमण्डने समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् । ( मनोत्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः !)॥४४॥*
[इति लिङ्गोचिता मणयः] शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् । दारुजं वसुसिद्धयर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥
[इति चलाचललिङ्गम्] एकाङ्गुलादिपञ्चान्तं चललिङ्गश्च कन्यसम् । षट्पादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६॥
[इति चललिङ्गम्] नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् । स्थिरं तत् स्थापयेद् गेहे (३)गण्यां हे दूरकृद् यतः ॥ ४७ ॥
[इति स्थिरलिङ्गम् ] (४)वाणलक्षणहीनेऽपि यत्र वै रोचते मनः । तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥
[इति लक्षणादिहीनस्यापि पूज्यत्वम् ] रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः । नवान्तं नवलिङ्गञ्च वृद्धिी मुद्गमानिका ॥ ४९॥
[इति रखलिङ्गमानम् ] धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥
[इति धातुलिङ्गमानम् ] दृढकाष्ठमयं लिङ्गं कर्त्तव्यं षोडशाङ्गुलम् । षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥
[इति दारवलिङ्गमानम्]
(१) 'दीप्तिः सान्निध्यकारणम्' इति स्यात् । (२) 'लिङ्गं' इति स्यात् । (३) 'गृहांहोदूरकृद्' इति स्यात् । (४) 'वर्ण-' इति स्यात् ।
* अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः।
For Private And Personal Use Only