________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः हस्तादिनवहस्तान्तं शैलं लिङ्गं विधीयते । हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ ५२ ॥
[इति शैललिङ्गमानम् ] मृद्दारुलोहशैलानां दैये भक्ते जिनांशकैः [२४] । कुर्यात् षट्सार्धसप्ताष्टनवांशै(१)स्तरं शुभम् ॥ ५३ ॥
[इति लिङ्गमानम् ] श्रीपर्णी (२)शिशुपाशोकशिरीषः (३)खादिनोऽर्जुनः । चन्दनः श्रीफलो निम्बो रक्तचन्दनबीजकौ ॥ ५४ ॥ कर्पूरो देवदारुश्च चन्दनः पारिजातकः । चम्पको मधुवृक्षश्च हिन्तालश्चागुरुः शुभाः ॥ ५५ ॥
[इति लिङ्गवृक्षाः] (४)निर्बणाःxxx सर्वे लिङ्गार्थे सौख्यदायकाः । प्रन्थिकोटरसंयुक्ताञ् शाखोद्भूतान् परित्यजेत् ।। ५६ ।।
[इति वृक्षलक्षणम् ] निलयं दारुलिङ्गानामिष्टकादारुजं शुभम् । शैलजं धातुरत्नानां स्वरूपं चाधिकं शुभम् ॥ ५७ ॥
[इति दादिलिङ्गोचिताः प्रासादाः ] धातुजे रत्नजे बाणे दारुजे च स्वयम्भुवि । (५)गृहनूनाधिकं वाऽपि (६)वक्तलिङ्गिषु पार्थिवः ॥ ५८ ॥ हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये। (७)ज्येष्ठलिङ्गे तु वेदांशं षट्त्रिंशं नवहस्तकम् ॥ ५९॥ पञ्चादिभूतवेदांशे प्रासादे हस्तसंख्यया । मध्यमं पश्चमांशेन हस्तादिनवहस्तकम् ॥ ६०॥
(१) 'विस्तरं' इति स्यात् । (२) 'शिंशपाऽशोकः' 'शिशुकाऽशोकः' इति वा स्यात् । (३) 'खादिरो-' इति स्यात् । (४) 'निर्बणाः' इत्यनन्तरं 'सुदृढा' इति त्र्युटितं स्यात् । (५) 'गृहं न्यूनाधिकं' इति स्यात् । (६) 'वक्तलिङ्गेषु पार्थिवे' इति स्यात् । (७) 'ज्येष्ठलिङ्गन्तु वेदांशे षट्त्रिंशे' इति स्यात् ।।
For Private And Personal Use Only