________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने (कृत्वादियुगलत्वान्तं ?)हस्तसंख्ये शिवालये । षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥ (१)कनिष्ठाज्येष्ठलिङ्गेषु मध्यमामध्यमेषु च । प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥ गर्भ पञ्चांशके त्रयंशे ज्येष्ठलिङ्गं तु मध्यमम् । नवांशं पञ्चभागं स्याद गर्भाध कन्यसोदयम् ॥ ६३ ॥
[इति प्रासादमानेन लिङ्गमानम् ] पद्मं शङ्खो ध्वजा छत्रं (२)खड्गशक्तिकचामरे । वजं (३)दण्डोर्द्धभागञ्च चक्रं मत्स्यौ घटः शुभः ।। ६४ ॥ सौख्यदं चिह्न(४)मित्याद्यामावतॊ दक्षिणेऽपि यः । श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥
[इति लिङ्गे शुभचिह्नानि ] ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः । पूजाभागः सुवृत्त(ः) स्यात् पीठोद्धं शङ्करस्य च ॥६६॥
[इति लिङ्ग ब्रह्मादिभागाः] पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः । पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥ (मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।!) . (६)न्नाभमष्टमांशेन (७)साधे द्वयंशषडङ्गके ॥ ६८ ॥ त्रपुषाभं विस्तरार्धं कुक्कुटाण्डं शिरो मतम् ।। त्रिभागे लिङ्गविस्तारे एकांशेनार्धचन्द्रकम् ॥ ६९ ॥ सार्धत्र्यंशेन तुल्यं स्यादष्टांशे बुबुदाकृति(::)। ऊर्द्धाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥
- [इति लिङ्गस्यो दिभागाः] (१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्धचन्द्रश्च' इत्यन्यत्र । (४) 'मित्याद्यमावत्तों' इति स्यात् । । (५) 'लिङ्गं चिथं' इति स्यात् । (६) 'छत्राभमिति स्यात् । (७) 'सार्धयंशे षड्शके' इति स्यात् ।
For Private And Personal Use Only