________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थोऽध्यायः
दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति (:) | लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः । स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेदान्तरे सुरान् ॥ ७१ ॥
इति घटितरत्न लिङ्गलक्षणम् ।
|राणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च ।
कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥ नि वै नर्मदायाश्च अन्तर्वेद्याञ्च सङ्गमे ।
केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥ [ इति बाणोत्पत्तिस्थानम् ]
त्रेपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
नदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥ [ इति बाणपरीक्षा ]
स्थूलं (२) खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् । बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥ (३) चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥ [ इति वर्ण्यलिङ्गानि ]
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थान्तरे ;
महानदी समुद् (४) भूत सिद्धक्षेत्रादिसम्भवम् ।
पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥
सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः । बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥
For Private And Personal Use Only
२६
(५) सर्वं व्रततपो दानं तीर्थं देवेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥ (१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वञ्च' इति स्यात् । (४) 'भूतमिति स्यात् । (५) 'सर्वत्रततपोदानतीर्थदेवेषु' इति स्यात् ।