Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले । लक्षवारं नर्मदायां कोटिं च कुरुजाले ॥ ८ ॥ कृत्वा स्वानं तथा पिण्डं होमं दानं च भोजनम् । (१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥ (२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च । स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥ [इति बाणलिङ्गप्रशंसा] लिङ्गायामसमो दैये उच्छ्रायः पीठिकासमः । (४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥ बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये । शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥ [इति वाहनविधिः] विस्तारस्य त्रिभागेण प्रणालं चाधिकं मतम् । (६)तदर्धे नमविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥ इति लिङ्गानि । पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् । उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥ जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् । आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥ उपर्युपरि पीठानां सन्धिरङ्गावसानके । (८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥ चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता । उन्नता दर्पणाकारा बाह्य मेखलयाऽन्विता ॥ ८९ ॥ (१) 'गुणित' इति स्यात् । (२) 'धातवे' इति 'घटे वै' इति वा स्यात् । (३) 'बाणे पञ्चशतेषु च' इति स्यात् । (४) 'समभागायतो वृषः' इति स्यात् । (५) 'स्वयम्भूमुख' इति स्यात् । (६) 'तदर्धेनाप्रविस्तारं' इति स्यात् । (७) 'नेष्टमन्योन्य' इति स्यात् । (८) 'नालस्य' इति स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339