Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ रूपमण्डने गदाखटाङ्गपात्राणि कार्मुकं तर्जनीघटौ। परशु पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥ इति त्र्यम्बकः [१२] । इति द्वादश रुद्राः। उमामहेश्वरं वक्ष्ये उमया सह शङ्करः । (२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥ आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे । हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥ अधस्ताद वृषभं कुर्यात् कुमारञ्च गणेश्वरम् । भृङ्गिरीटं तथा(४)कुर्यान्निमंसिन्नृत्यसंस्थितम् ॥ २९॥ इति उमामहेश्वरः । कार्यों (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा । हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥ वरं त्रिशूलचक्राजधारिणो बाहुकाः क्रमात् । दक्षिणे वृषभः पार्वे वामे विहगराडिति ॥ ३१ ॥ इति हरिहरमूर्तिः। एकपीठसमारूढमेकदेहनिवासिनम् । षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥ अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे । कमण्डलुञ्च खटाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥ इति हर पितामहः । उमाञ्च द्विभुजां (६)कुर्यालक्ष्मीर्नारायणाश्रिता । देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥ (१) 'वामोर्ध्वादिः' इति स्यात् । (२) 'मातुलुङ्ग' इति स्यात् । (३) 'नागेन्द्रो' इति स्यात् । (४) 'कुर्यान्निमासं नृत्य-' इति स्यात्। (५) 'हरिहरश्चापि' इति स्यात् । (६) 'कुर्यालक्ष्मी नारायणाश्रिताम्' इति स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339