SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अटमोऽध्यायः Acharya Shri Kailassagarsuri Gyanmandir १६७ [ नृत्ये आल्यादीनां प्रातिस्त्रिकविषयनिरूपणम् ] (अ) आस्ये) नाऽऽलम्बयेद् गीतं हस्तेनार्थं प्रकल्पयेत् । चतुभ्य च भवेद् भावः पादाभ्यां तालनिर्णयः ॥ १२० ॥ [ ग्रन्थकृतः स्वाहङ्कारपरिहारः ] श्रीविश्वकर्मणः शास्त्रे पुराणभरतागमे । रूपसंख्याऽप्यनेकाऽस्ति लेशोऽयं लिखितस्ततः ॥ १२१ ॥ [ ग्रन्थसमाप्तिः ] यस्या नो कलयन्ति रूपमखिलं ब्रह्मादयो देवता गौर्या विश्वमिदं विचित्ररचनाश्चर्यं समुत्पद्यते । प्रोक्तं रसानामिदमत्र लक्ष्म दृशाञ्च संक्षिप्ततया तदेतत् । विज्ञाय चित्रं लिखतां नराणां न संशयं याति मनः कदाचित् ॥ (अ० ८२, श्लो० ३५ ) इति । १२० | पुनरपि नृत्यादौ विशेषमाह - आस्येनेति । अत्र यथाश्रुतपाठे सामान्यवाचिना अङ्गशब्देन अङ्ग विशेषो मुखं लक्ष्यते, यथा नदीविशेषजोऽपि गाङ्गेयः शान्तनवो नदीज इति । श्लोकः स्पष्टार्थः । समराङ्गणसूत्रधारे हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥ इति (अ० ८२, श्लो० ३३-३४ ), For Private And Personal Use Only आङ्गिके चैव चित्रे * * * साधनमुच्यते । ( भवेदादत ? ) स्तस्मादनयोश्चित्रमाश्रितम् ॥ इति यथोक्तमर्थमनुवदन्निव तस्य चित्रोपकारकत्वमपि व्यादिदेश । नन्दिकेश्वरविरचिते अभिनयदर्पणे ( Calentta Sanskrit Series, No. V. ) - ari दर्शयेद्भावं पादाभ्यां तालमादिशेत्' इति द्वितीयचरणपरिवृत्त्याज्यं श्लोकः, अविकलः पूर्वश्लोकश्च वर्तते । १२२ । सम्प्रति ग्रन्थकर्त्ता स्वकृतेरसमग्रत्वमन्यच्छायायोनित्वञ्च प्रत्याययति -श्रीविश्वकर्मण इति । पुराणे मातृस्यानेयविष्णुवर्मोत्तरादौ भरतागमे भरतकृतनान्यसूत्रादौ च रूपसंख्याऽपि, न केवलं नृत्यगीतादिगतविशेष इत्यपेरर्थः, अनेका अस्ति, मया तु ततो लेशोऽल्पमात्रं लिखितः । आस्तां नाम नृत्यगीतादिविषयके विशेषे न्यूनता तत्रास्माकमनधिकारात, यत्त्वस्मदधिकृतायां रूपसंख्यायामप्यसामग्र्यं तदेव मां दुःखाकरोतीति भावः ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy