Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 10
________________ दशकण्ठवधम् तदिति । ॐ पदार्थस्य प्रणवनाव्यस्य । 'तस्य वाचक प्रणव' (यो० द० १२७ ) इति पतञ्जलि | अवतीति श्रम् । अव रक्षणादौ । 'अवतेष्टिलोपश्च' इत्यादिको मन् । वेदितव्य वेदनसावन च - ' शब्दार्थप्रत्ययानामितरेतराध्या सात् सकरस्तत्प्रविभागसयमात् सर्वभूतरुतज्ञानम्' (यो० द० ३१७) । तथा च गीतासु पठ्यते - 'ओमित्येकाक्षर ब्रह्म' ( -१३ ) इति । शिवमहिम्न - 'समस्त व्यस्त त्वा शरद । गृणात्योमिति पदम् ।' इति च । व्यस्तपक्षे अकार उकारो मकार इति तदवयवा । 'अकार चाप्युकार च मकार च ' - ( मनु० २७६ ) इति मनु । दीव्यतीति देव | पचाद्यच् । तस्य । सुवति प्रेरयतीति सविता । षू प्रेरणे । तृच् | तस्य | 'विश्वानि देव । सवित " ( शु० य० स० ३० ३) इति श्रुत्यन्तरम् ! तदेतकद् । 'अव्ययसर्वनाम्नामकच्प्राक्टे ' ( पा० सू० ४ ३ ७१ ) इत्यकच् । तदिद् सकलान्तर्यामितथा परोक्षापरोक्षमिति तत्त्वम् । वरेण्यम् अभ्यर्थनीयम् । भर्जते इति भर्ग तेज । भृजी भर्जने । 'अञ्चयजियुजिभृजिभ्य कुश्च' इत्यौणादिकोऽसुन् । प्रधीमहि सम्यग् ध्यायेम | ध्यै चिन्तायाम् । क्वचित्-'सत्य पर धीमहि' (वि० भा० १११ ) त्रियम्बक सयमिन ददर्श' (कुमा०स०३ ४४) इत्यादिवत् लोकेऽपि विशिष्टप्रतिपत्तये छान्दसप्रयोग | अन्यथा - 'ध्यायेम सत्य परम्' यद्वा- 'सत्य पर मन्महे' इति - 'त्रिलोचन' कि वा- 'त्रिचक्षुष' इति च प्रयोजयेत् । सर्वे वयमुपासका उक्तलक्षण भर्ग सप्रज्ञातास प्रज्ञातयोगाभ्यामाकलयेमहीति तात्पर्यम् । प्रवर्तनाया लिङ् । लिड्वाच्यप्रवर्तनया प्रवृत्तिनिष्पत्तौ तु लडेव । अभेदवादे तु तदात्मतासमापत्त्या वयमितरै प्रध्यायेमहीत्यप्यनुसधेयम् । आत्मा हि चिप को विभुर्नित्यश्चास्ति । स्वयप्रकाशत्वात् सजातीयादिभेदशून्यत्वात् सर्वगतत्वाद् अनाद्यनन्तत्वाद् यावद्भेदकजालस्य जडत्वाच्च । ततश्चैतन्यात्मनो विराट्शरीरत्वमव्याहतम् । तथा चोक्तम् 'एक स आत्मनासौ न हि क्रमोऽस्तीह देशकालाभ्याम | भेदिनि मिथ स युक्तश्चेत्ये भेदाश्रय खलु स ॥ ( विरूपाक्षपञ्चा० २१२ ) इतरथा 'उत्क्रम्य विश्वतोऽङ्गात् तद्भागैकतनुनिष्ठिताहन्त । कण्ठलुठत्प्राण इव व्यक्त जीवन्मृतो लोक ॥' ( विरूपाक्ष पञ्चा० १५ )

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 166