Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १२७ द्वितीयम्, निरस्तदोषमपि महादोषम्, अमितगजतुरमादिसहायमपि चापैकसहायम, रथगतमपि धनुषि निषण्णम्, समुत्सारितविद्विडिंन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, नन्दाढ्यं एकमपि द्विधा त्रिधा चतुर्धा च वीक्ष्य बहवो मेदिनीपतयस्तत्क्षणमभ्यसूययेव स्वयं पञ्चत्वमाजग्मुः ।। नपुले विपुले च चापवल्लीं भृशमाकृष्य किरत्यतीव रोपान् । खगमण्डलमेदुरं बतानं पिहितोद्यत्खगमण्डलं बभूव ॥९५ ॥ तावत्कोङ्कणभूपतिर्दुततरं धावद्रथेनागतः ___ क्रोधान्धो नपुले ववर्ष विशिखासारं महागर्जनः । यद्वद दुर्धरवज्रपातमधिकं संवर्तकालोद्यतो । जीमूतो वसुधाधरस्य शिखरे निःसीमघोरारवः ॥१६॥ दिशं प्रतीचीमिव पद्मबन्धुं मूर्छा गतं मन्दतरप्रतापम् । अपासरत्संगरभूमिभागविहायसो वीरमिमं नियन्ता ॥९७॥ तदिदमाकर्ण्य शोककातरं निजजामातरं कोपारुणवदनं कुरुपञ्चवदनं समीक्ष्य विद्याधरक्षोणीपतिर्गरुडवेगः प्रथितनिजबलकोलाहलव्यालोललोकः स्तोकेतरपराक्रमः क्रमेण संग्रामसीमामवनगाहे । संग्रामोपरि जृम्भितः खगपतिः कोपात्कसलाननः शक्तीस्तोमरशूलनालपरिघान्कुन्तानसीन्पर्वतान् । वर्षन्भीममदाट्टहासरभसक्षुभ्यदिशामण्डल श्चिक्रीडाम्बरसीनि संगरकलातुङ्गीभवद्दोर्मदः ॥ ९८॥ दृष्ट्रमं रुधिराणि तत्र ववमुः केचिद्भटाः शत्रुषु .प्राणान्केचन तत्यजुर्भयभरात्पेतुः क्षितौ केचन । केचिद्दावनलालसा वसुमतीपालाश्च दिङ्मोहतो भ्राम्यन्तो रणसीनि शिक्षितहयाभ्यासप्रकर्ष दधुः ॥९९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162