Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० जीवंधरचम्पुकाव्ये दुरीक्षमतुलं तदा जयरमातुलारोहणम् ॥ १०७ ॥ वीर्यश्रीप्रथमावतारसरणी तस्मिन्कुरूणां पतौ बाणान्मुञ्चति हस्तनर्तितधनुर्वल्लीसमारोपितान् । दीर्णक्षत्रभटच्छटाभिरभितः संभिद्यमानान्तरं __ भास्वद्विम्बमहो बभार गगनश्रेणीमधुच्छत्रताम् ॥१०॥ दृप्यसिन्धुरदीर्णकुम्भयुगलीप्रोन्मुक्तमुक्ताफलै र्बाणावासिजयश्रियः प्रविगलन्मादाश्रुबिन्दुप्रभैः । लेखानां कुसुमोत्करं सुरभिलं द्राग्वषतां हर्षतां प्रत्यर्चा चतुरश्चकार समरे सोऽयं कुरूणां पतिः ॥१०९ एवं भिन्दन्बलं वीरः कृतन्त्रमभियाय सः । वीरश्रियानुधावन्त्या समालिङ्गितविग्रहः ॥ ११ ॥ एवं जयश्रीताण्डवरङ्गस्थलायमानभुनयुगलं कुरुवीरमवलोक्य काष्ठाङ्गार एवमुवाच । क वैश्यपुत्रस्त्वमतीष भीरुर्वयं क चापागमपारनिष्ठाः । अथापि ते संयति संप्रवृत्तावमात्मवेदित्वमवेहि हेतुम् । १११ ॥ तुलादण्डधृतौ वैश्य तव यत्करकौशलम् । विस्तारयसि सच्चापे धिक्कापलमहो तव ॥ ११२॥ साहसेन रणे तिष्ठन्मुमूर्षुरसि मुग्धधीः । त्वत्प्राणवायोः कः पाता मकृपाणाहिना विना ॥ ११३ ॥ इति काष्टाङ्गारदपविलसितदुर्वचनमाकर्ण्य कुरुवीरोऽप्येवं जगाद । त्रपां विना मे पुरतः प्रजल्पसे कृतघ्न वीर्य तव दृष्टपूर्वम् । त्वया समः कोऽपि न लक्ष्यते क्षितौ नूनं प्रभुद्रोहविधौ समर्थः ॥ ११४ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162