Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ जीवधरचम्पुकाव्ये _इति मनसि चिन्तयन्कुरुकुमुदिनीकान्तो द्वादशानुप्रेक्षया तत्क्षणमक्षोभ्यां विरक्तिं व्यवस्थापयन्, राज्यादिकं तृणाय मन्यमानः, तस्मादनान्निर्गत्य निर्वत्य च भगवजिनेन्द्रपूजाम, धर्मामृतप्रदान. निरस्ततन्द्राद्योगीन्द्रान्मणिमयकिरीटकोटिविन्यस्तहस्ताम्भोरुहकुलः कुम्भिनीपतिधर्म शुश्राव । श्रुत्वा धर्म वल्लभोऽयं धरित्र्या धीरः श्रीमान्धार्मविद्यो बभूव । तत्संस्कारे कोविदैर्बुद्धियद्भिः शाणोल्लीढः सन्मणिनिर्मलो हि ॥ ३० ततश्चारणयोः पूर्वं पूर्वजन्मबुभुत्सया । पप्रच्छ नरपालोऽयं प्रश्रयस्य वशंवदः ॥ ३१ ॥ नृपेण परिष्टष्टोऽयमवधिस्टष्टलोचनः । यथावत्कुरुवीरस्य समाचष्ट पुराभवम् ॥ ३२ ॥ अस्ति निखिलभुवनतलललामभूतं धातकीषण्डमण्डनायमानमति. विशालतया द्वितीयष्टथिवीशङ्कासमागतेन पारावारेणेवातिगम्भीरेण परिघावलयेन परीतम, विजयागिरिशिखरशङ्कावहैरभ्रंकषैरनवरततन्तन्यमानमहोत्सवदिदृक्षासमागतवैमानिकजनविमानैरिव सुधाधवलेः सौधैः परिष्कृतम्, समुत्तुङ्गहर्म्यतलसंगतनितम्बिनीजनतरङ्गितसंगीतमङ्गलरवाकृष्यमाणाधोमुखहरिणाङ्कहरिणम्, कामिनीजनमणिभूषणप्रभानिरस्ततमःसङ्घातव्युत्पत्तिशुन्यपौरलोकतया विघटितचक्रवाकयुगलं व्यर्थीकतप्रदीपम्, भूमितिलकं नाम नगरम् । तत्राभवत्पवनवेग इति प्रतीतो - राजा विराजितगुणो विलसत्प्रतापः । कीर्त्या पयोनलधिफेननिकाशकान्त्या व्यालिप्तविस्तृतसमस्त दिशावकाशः ॥ ३३ ॥ सती जयवती नाम रतिगर्वविमोचना । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162