Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशो लम्बः । १४३ इति सदयमशेषं वक्षिमाणो धरायाः ___ पतिरथ विषयेषु व्याहताशाविशेषः । अतनुत हृदि चिन्तामेवमाजानधीरः ___ कृतसुकृतविपाकः काललब्ध्या समेतः ॥ २१ ॥ काष्ठाङ्गारायते कीशो राज्यमेतत्फलायते । मद्यते वनपालोऽयं त्याज्यं राज्यमिदं मया ॥ २२ ॥ या राज्यलक्ष्मीबहुदुःखसाध्या दुःखेन पाल्या चपला दुरन्ता । नष्टापि दुःखानि चिराय सूते तस्यां कदा वा सुखलेशलेशः ॥ २३ ॥ कल्लोलिनीनां निकरैरिवाब्धिः कृपीडयोनिर्बहलेन्धनैर्वा । कामं न संतृप्यति कामभोगैः कन्दर्पवश्यः पुरुषः कदाचित् ॥२४॥ राज्यं स्नेहविहीनदीपकलिकाकल्पं चलं जीवितं शम्पावत्क्षणभङ्गुरा तनुरियं लोलाभ्रतुल्यं वयः । तस्मात्संमृतिसन्ततौ न हि सुखं तत्रापि मूढः पुमा. नादत्ते स्वहितं करोति च पुनर्मोहाय कार्य वृथा ॥२५॥ विलोभ्यमानो विषयैर्वराको भङ्गरैर्भृशम् । नारम्भदोषान्मनुते मोहेन बहुदुःखदान् ॥ २६ ॥ ममेयं मृढङ्गी मम तनय एषः प्रचुरधी रिमे मे पूर्वार्था इति विगतबुद्धिर्नरपशुः । अणुप्रख्ये सौख्ये विहितरुचिरारम्भवशगः प्रयाति प्रायेण क्षितिधरनिभं दुःखमधिकम् ॥२७॥ ये मोक्षलक्ष्मीमनपायरूपां विहाय विन्दन्ति नृपाललक्ष्मीम् । निदाघकाले शिशिराम्बुधारां हित्वा भजन्ते मृगतृष्णिकां ते ॥२८॥ तस्मात्लेशचयाल्लब्ध्वा मानुषं जन्म दुर्लभम् । प्रमादः स्वहिते कर्तुं न युक्त इह धीमता ॥ २९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162