Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशो लम्बः । कान्ताभवन्नृपालस्य कर्णान्तायतलोचना ॥ ३४ ॥ यशोधर इतीरितो नरपतेः कुमारो भवा न्बभूव जितमन्मथः स्ववपुषा घनश्रीपुपा । तवाष्ट सुदृशो बभुः कमलजेन निष्पादिता गिरिद्वयधुरा स्थिरा इव मनोहरा विद्युतः ॥ ३५ ॥ कदाचिद्भगवान्योवनपरिपुष्टाभिः कान्ताभिः करिणीभिरिव करीन्द्रः सहर्षमुपवनविहाराय चलितः, पुरतः परिस्फुरन्तं पद्माकरमागत्य, तत्र कान्ताजनगतिनिरीक्षणलज्जितेष्विव मञ्जुलमञ्जरीरवानुकारिविरावमुखरितारामेषु क्षणादुड्डीनेषु राजहंसेपु, निरवशेषमसातपक्षतया गगनोद्गमनायासमर्थम्, विकचवारिजे सत्रासं विलुटन्तम्, पद्मिनीमुखकमलचलाचलनासामुक्ताफलायमानम्, पद्माकरवास्तव्यपद्मावदनसरोनविगलन्मन्दहासखण्डसंभाव्यमानम्, वनदेवताविकचकुसुमकन्दुकशङ्काकरम्, अतिपेशलं राजहंसशाबकं केनचिदनुचरेण भवनमानाय्य, कनकशलाकाकलितपञ्जरे निवेश्य, मधुरक्षीरोदनाद्युपचारेण निरवद्यं विवर्धयामास । कदाचित्कान्तानां कुचकलशसीनि प्रियतमो __ भवान्बालं हंसं नरवर निधायैवमवदत् । अये त्वं पद्मानां विरहमुनुभोक्तुं न हि पटु ___ यतस्तद्वक्षोजाम्बुजमुकुलयुग्मेऽद्य विहर ॥ ३६ ॥ __ एवं मरालपोतमरालकुन्तलाभिः कान्ताभिः सह सन्ततं क्रीडयति भवति सहर्षमास्थिते, धर्मविदामग्रणीस्ते पिता हंसाभकबन्धनोदन्तमाकर्ण्य कुपितस्त्वामाय बहुधा धर्मपरिपाटी प्रकटयामास । तदनु कर्णामृतायमानधर्मबोधनविजृम्भितनिर्वेदः पित्रा निवारितोऽपि भवान्वैराग्यसमासादितजिनदीक्षादुश्चरतपश्चरणदक्षः, 13 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162