Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशो लम्बः । १३९ पद्माकराञ्चितस्यास्य राजहंसस्य सन्ततम् । बहुधावननिघ्नत्वमद्भुतं च न चाद्भुतम् ॥ ४ ॥ इयं सुमधुराकारा लक्ष्मणा वरलक्षणा । राजहंसस्य पत्नीति परमाद्भुतमीक्ष्यते ॥५॥ अयं खलु लक्ष्माञ्चितोऽपि पद्माभिख्याविराजितोऽपि मुमित्रा. नन्दनो, विजयानन्दनोऽपि कुण्डलाञ्चितकर्णो, धृतराष्ट्रोऽपि धर्ममयो, गन्धर्वदत्ताधिकहर्षोपि देवदत्ताधिकहर्षो, महिषीसंभवोऽपि वृषोत्पादी विरराज । लक्ष्मणाञ्चितगात्रोऽपि निर्मलः कुरुचन्द्रमाः । सदा कुवलयाहादी पद्मानन्दीति चाद्भुतम् ॥ ६ ॥ कदाचिदमो धरापतिविविधरत्नराशिभिमहाचैर्महनीयकान्तिकन्दलितमानन्दकरं सकलभव्यजनानामासेचनकं लेखलोचनानामकृत्रिम. चैत्यालयप्रतिम भगवन्जिनमन्दिरं शिल्पशास्त्रपारंगतैः शिल्पकैनिर्मापयामास । तत्र च भगवतो नित्योत्सवपक्षोत्सवप्रमुखोत्सवपरंपरानिरन्तरनिष्पत्तये तत्समुचितानि प्रशस्तक्षेत्राणि प्रतिपाद. यितुकामे शात्रवजनविरामे निखिलगुणाभिरामे साक्षात्कामे विजया. देवी पूर्वकृतोपकारस्मरणजनितहर्षेण तत्क्षेत्राधिपत्यं तापसजनाय प्रदापयामास । नृपस्य जननी ततो निखिलशीलमालाखनि य॑रज्यत विशालधीः कुटिलसंसृतावेकदा । अपश्यमिह पैतृकं पदममन्दकीर्ती सुते पराक्रमजिताहिते किमधुनेति सा जानती ॥ ७ ॥ ततश्च सा देवी, अष्टापि स्नुषाः समीपे विधाय, हे वामालका हेमायितवल्लिकायमानतनुलताः सीमातीतगुणगुम्भिता मराल For Private And Personal Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162