Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ . जीवंधरचम्पुकाव्ये जयश्रिया साकममन्दकीति विन्दन्कुरूणां पतिरेष धीरः । राज्यश्रिया सार्धमिमां कुमारी लब्ध्वा प्रजानां वलयं जुगोप ॥१४१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुनीवंधरे लक्ष्मणालम्भो नाम दशमो लम्बः ॥ एकादशो लम्बः। दोष्णा कुन्दसमानकीर्तिविसरैरामोदिनी मेदिनी वाचा सत्यविलासमुतममधुस्यन्दप्रतीपश्रिया । चित्तेन सितिपालनीतिपदवीं नेत्रेण सर्वप्रजायोगक्षेमकलां वभार नृपतिहस्तेन दानोदकम् ॥ १ ॥ तस्मिन्नरपतौ तत्र प्रजापालनतत्परे । राजन्वती च भूरासीदूनगर्भा वसुंधरा ॥ २ ॥ तस्य च यशोमण्डलं शिशिरमपि शात्रवजनसंतापकारणम्, स्थिरमप्यनवरतभ्रमणशीलम्, निर्मलमपि मलिनीकृतारातिमुखकमलम्, धवलमपि प्रजानुरागपरिमेदुरम्, निन्दितराजमण्डलमप्यानन्दित. महाराजमण्डलमुदजृम्भत । तस्य च प्रतापाङ्कुरा दिक्सुन्दरीणां केशपाशेषु कल्हारशङ्काम, कर्णदेशेषु किसलयस्तोमविभ्रमम्, वनकुचकुम्भेषु काश्मीरशोभाम्, कटिप्रदेशेषु कोसुम्भपटसंभावनाम्, कराम्बुजेषु कुरुविन्दमयकङ्कणविलासम्, पादतलेषु लाक्षारस. विच्छित्तिं संपादयामासुः । वह्निप्रतप्तद्रुतहेमवर्णैः प्रतापलेशैः कुरुकुअरस्य । लिप्तेषु सर्वेष्वपि भूमिभृत्सु मेरुभ्रमोऽभूत्सुरसुन्दरीणाम् ॥३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162