Book Title: Buddhisagar Author(s): Sangramsinh Soni Publisher: Shrutbhuvan Sansodhan Kendra View full book textPage 6
________________ श्रीसङ्ग्रामसोनीविहितस्य बुद्धिसागरस्योपक्रमः ग्रन्थोऽयं यथार्थाभिधानो बुद्धिसागरो विपश्चितामुपदीक्रियमाणः गृह्यतां करकुशेशये कोविदैः । अस्मिन् हि ग्रन्थरत्ने श्रीमद्भिः सङ्ग्रामसिंहैः प्रकरणापराभिधानास्तरङ्गा निवेशिताश्चत्वारः, ते च क्रमेण धर्मनयव्यवहारप्रकीर्णकाख्याः। यद्यपि लघुतमोऽयं ग्रन्थस्तथापि चाणक्यकामन्दक्यादिनीतिशास्त्राणामिव शिशूनां व्यवहारपरायणानां चातीव उपयुक्त इति मुद्रणमस्यादृतं संस्थयाऽनया। यथायथं लोकोपयोगिनः सर्वेऽपि विषया अस्मिन् निवेशिता इति ग्रन्थः पाठोपयुक्तोऽयम्। कर्ता चास्यालावदीनसत्कसाङ्गणान्वयी श्रीनरदेवतनूजः सङ्ग्रामसिंहो मालवाधिपमहमूदभाण्डागारिको येन श्रीमक्षीपार्श्वचैत्यं समुदधे । कृतिश्चास्य निजामजययात्रायां प्रतिष्ठानपुरे इति स्पष्टं प्रशस्तावस्य । १९९३ वैशाख शुक्ला १३ १. मुद्रिताया आवृत्तेरुपोद्घातः । निवेदका आनन्दसागरा:Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 130