________________
श्रीसङ्ग्रामसोनीविहितस्य बुद्धिसागरस्योपक्रमः
ग्रन्थोऽयं यथार्थाभिधानो बुद्धिसागरो विपश्चितामुपदीक्रियमाणः गृह्यतां करकुशेशये कोविदैः । अस्मिन् हि ग्रन्थरत्ने श्रीमद्भिः सङ्ग्रामसिंहैः प्रकरणापराभिधानास्तरङ्गा निवेशिताश्चत्वारः, ते च क्रमेण धर्मनयव्यवहारप्रकीर्णकाख्याः।
यद्यपि लघुतमोऽयं ग्रन्थस्तथापि चाणक्यकामन्दक्यादिनीतिशास्त्राणामिव शिशूनां व्यवहारपरायणानां चातीव उपयुक्त इति मुद्रणमस्यादृतं संस्थयाऽनया।
यथायथं लोकोपयोगिनः सर्वेऽपि विषया अस्मिन् निवेशिता इति ग्रन्थः पाठोपयुक्तोऽयम्।
कर्ता चास्यालावदीनसत्कसाङ्गणान्वयी श्रीनरदेवतनूजः सङ्ग्रामसिंहो मालवाधिपमहमूदभाण्डागारिको येन श्रीमक्षीपार्श्वचैत्यं समुदधे ।
कृतिश्चास्य निजामजययात्रायां प्रतिष्ठानपुरे इति स्पष्टं प्रशस्तावस्य ।
१९९३ वैशाख शुक्ला १३
१. मुद्रिताया आवृत्तेरुपोद्घातः ।
निवेदका
आनन्दसागरा: