Book Title: Bhasha Rahasya Prakaran Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૫૮
ભાષારહસ્ય પ્રકરણ ભાગ-૨ | સ્તબક-૫ | ગાથા-૯૫
छाया:
अभ्युच्चयं न भाषेत आज्ञप्तिमयतानां वा ।
असाधुलोकं साधुरिति सदोषाशंसनं तथा ।।१५।। अन्वयार्थ :अब्भुच्चयं साधु सन्युय्ययने, ण भासिज्जा=बोलेन, अजयाण यमयावा मेवा स्थिो, असंयतीने, आणत्तिमायो (मे प्रमाए als), असाहुलोगं साधुलोने, साहु-साधु, त्ति-से प्रमाण, (st als), तहा-अने, सदोसासंसणं-सही माशंसनवाणi क्यat ale. Ineull . गाथार्थ :
સાધુ અભ્યશ્ચયને બોલે નહિ. અજયણાવાળા એવા ગૃહસ્થો કે અસંયતોને આવો એ પ્રમાણે કહે નહિ. અસાધુલોકને સાધુ એ પ્રમાણે કહે નહિ અને સદોષ આશંસનવાળાં વચનો કહે નહિ. Inલ્પા टी:
केनचित् कस्यचित् “सर्वमेतत् त्वया वक्तव्यमि"ति संदिष्टे सर्वमेतद् वक्ष्यामीति संदेशं प्रयच्छन् 'सर्वमेतदिति वाभ्युच्चयं न भाषेत-न वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वेनाऽसंभवाभिधाने द्वितीयव्रतविराधनाप्रसङ्गात्, तथा च 'सर्वे साधवो गता न वा ?' इत्यादिस्थले. सर्वथाऽनुविचिन्त्यैव वदेत् यथाऽसंभवाभिधानं न भवतीति ।
ननु 'सर्वो ग्रामो भोक्तुमागत' इत्यादिवत् ‘सर्वमेतत्' इत्यादिकं नासंभवग्रस्तमिति चेत् ? न, समुच्चये तथाविधविवक्षाऽभावात् चारित्रभावावस्थायामेतादृशाऽप्रयोगाच्च ।।
तथा अयतानां=असंयतानां आज्ञप्तिं 'आस्व एहि कुरू वा इदं कार्यं शेष्व तिष्ठ प्रज' इत्यादिरूपां, न भाषेत=न वदेत्, अयतनाप्रवर्तनप्रयुक्तदोषप्रसङ्गात् । ।
तथाऽसाधुलोकं आजीविकादिकं लोकैः साधुशब्देनाऽभिलाप्यमानं, 'साधुरयमिति न वदेत, मृषावादप्रसङ्गात्, न चैतद्वचनस्य रूपसत्याद्यन्तर्गततया न मृषात्वमिति शङ्कनीयम्, गुणोपबृंहणप्रवणानामीदृशानामन्वर्थशब्दानामविषये मोहादेव प्रयुज्यमानत्वेन दोषानुबन्धितया च मृषात्वोपपत्तेः, अत एव स्वविषये एतत्प्रयोगस्य गुणानुबन्धितया ज्ञानदर्शनचारित्रसंपन्ने भावसाधौ साधुपदानभिलापे उपबृंहणातिचारदोषप्रसङ्ग इति वदन्ति ।
ननु यद्येवं बोटिकनिह्नवादावन्वर्थसाधुशब्दाभिधानं मृषा कथं तर्हि पाषाणमय्यां प्रतिमायामन्वर्थाहदादिपदगर्भस्तुतिकरणं सार्थकमिति चेत् ? आः पाप! वृथा छिद्रान्वेषणमेतत् उक्तस्थलेऽसंयतोपबृंहण

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210