Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ उदाहरणानि आवश्यकनियुक्तेरव चूर्णिः // 405 // कायिक्या, एकदृगेकपार्श्वतृणादनात्, तदारूढौ स्त्रीपुरुषो कायिकीभ्यां, स्त्री गुर्विणी हस्तावष्टम्भोत्थानात्, सुतो भावि दक्षिणांहिगौरवात् , रक्तवस्त्रा तरुलग्नरक्तदशिकातः। नद्यां वृद्धायाः प्रवसितपुत्रशुद्धिं पृच्छन्त्या घटे भग्ने एकः प्राह मृतो धीमानागत इति, धीमतो वैनयिकी बुद्धिः 1 / अर्थशास्त्रं-नीतिशास्त्रं, तत्र वैरिकटकागमने उपर्यध इक्षुकलापकर्त्तनेन दधिकुम्भस्फोटनेन त्रासितं यथेदं मर्दनयोग्यं तथा यूयं मयीति कल्पकस्य बुद्धिः 2 / लेहे गणिए अत्ति-अष्टादशलिपीर्वेत्ति शिष्यमाणः 3, एवं गणितमपि 4 / कृपे-खातज्ञेनोक्तमियदूरे जलमस्तीति, तथा जातं 5 / अश्ववणिजो द्वारवत्यां गताः, कृष्णेन दुर्बलोऽश्वः सल्लक्षणेन गृहीतः 6 / 'गद्दहत्ति-राजा तरुणप्रियोऽटव्यां पतितस्तृषार्तों अभूत्, कटकान्तर्बुद्धये स्थविरं पृष्टवान् , एकेन स्वपिता पितृभक्तत्वात् प्रच्छन्नमानीतो दर्शितस्तेनोचे-यत्र गईभानामुत्सिंघना तत्रासन्नं जलं, वृद्धस्य धीः / लक्खण'त्ति पूर्णेऽवधी अश्वद्वयं दास्ये इत्युक्त्वा अश्वलक्षणवित्के(विदा के)नाप्यश्वरक्षकः स्थापितो जाता सुता तदासक्ता / | वेतनकालेऽवादीत्स अमुममुं च इति देहि द्वयं, स्वामिना ज्ञात्वोक्तं भार्या सुता अस्मै दीयते, सा नेच्छति, उक्तं तेन लक्षणयुक्तेन | कुटुम्ब वर्द्धते, यथा केनापि सूत्रधारेण प्राघुणो वर्द्धकिः सल्लक्षणत्वात् पुत्रीं दत्त्वा स्वगृहे एवाऽस्यापि / स कर्म न करोति भार्थया नुन्नो अटव्यां याति रिक्तहस्तश्चाऽऽयाति, षष्ठे मासि लब्धं चिक्रककाष्ठं कृतं मानकं विक्रीतं च लक्षेण श्रेष्ठिना गृहीतमक्षयनिमित्तं अश्वस्वामिनो धीः 8 / 'गठित्ति-पाटलिपुत्रे मुरुण्डो नृपस्तस्य वस्तुत्रयं परैः प्रेषितं, आहूतैः पादलिप्ताचार्यैः सूत्रं मदनमूढतन्तु उष्णोदके क्षिप्तं तन्तुराकृष्टः, समा यष्टिजलेऽमोचि मूलं गुरु, लाक्षालेपं समुद्गकमुष्णोदकेनोद्घाटितं, तत आचार्यैस्तुम्बकं विपा(निष्पा)द्य रत्नैर्मृत्वा नष्टसीवन्या संसीव्य परेषां प्रेषि, यः तदुत्सीवयति स लातु, तदभावे हारितं 9 / // 405 //

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460