Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 421
________________ आवश्यकनियुक्तेरव नमस्कारनियुक्तिः नि० गा. 955 चूर्णिः // 413 // *********** वाग्योगः, तथौदारिकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः। अत्र चैषां कः कदा व्याप्रियते?, तत्रेह मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् , काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिककाय योग एव, द्वितीयषष्ठसप्तमसमयेषु पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दात् औदारिककार्मण मिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव तन्मात्रचेष्टनात् इति, अन्यत्राप्युक्तंMI"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु 1 // कार्मणशरीरयोगी चतुर्थक पञ्चमे | 2 तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् / 2 / " अलं विस्तरेण / भाषायोगनिरोध इति, कोऽर्थः ?, परित्यक्तसमुद्धातः कारणवशाद्योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वा असत्यामृषं वा प्रयुड़े, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं, फलकप्रत्यर्पणादौ, ततोऽन्तर्मुहर्त्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षद्भिर्मासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् , एवं च सति ग्रहणमपि स्यात् , अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, ततश्च भवोपग्राहिशेषकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्प परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते, तत्र पूर्व बादरकाययोगेन बादरमनोयोग निरुणद्धि, ततो वाग्योगं, ततः सूक्ष्मकाययोगेन बादरकाययोगं, तेनैव सूक्ष्ममनोवाग्योगी, सूक्ष्मकाययोगं तु सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं | मात्रे च कालशेषे इति आव० मलयगिरिवृत्तौ / **

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460