Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ बावश्यकनियुक्तेरव चूर्णिः // 446 // आदिशब्दादल्यादिग्रहः, सर्वधत्ता पुनः कृत्स्नं वस्तु व्याप्य व्यवस्थिता // 188 // भावसर्वमाहभावे सव्वोदइओदयलक्खणओ जहेव तह सेसा / इत्थ उ खओवसमिए अहिगारोऽसेससव्वे अ॥१८९॥ (भा०) सर्वो द्विप्रकारोऽपि शुभाशुभभेदेन औदयिकः-उदयलक्षणः कर्मोदयनिष्पन्नः, यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्याः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व एवौपशमिकः, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः / अत्र तु क्षायोपशमिकभावसर्वेण अधिकारः, 'अशेषसर्वेण च' निरवशेषसर्वेण च // 189 // सावद्याख्यावयवमाहकम्ममवजं जं गरिहिअंति कोहाइणो व चत्तारि / सह तेण जो उ जोगो पच्चक्खाणं हवई तस्स // 1051 // कर्म-अवयं भण्यते, यद्गर्हित-निन्द्यं, क्रोधादयो वा चत्वारोऽवद्यं, सह तेन-अवद्येन 'यस्तु योगः'य एव व्यापारोऽसौ सावध इत्युच्यते / 'प्रत्याख्यानं' निषेधलक्षणं भवति, 'तस्य' सावद्ययोगस्य // 1051 // योगः-द्विधा द्रव्ययोगो भावयोगश्च, तथा चाहदव्वे मणवयकाए जोगा दव्वा दुहा 3 भावंमि / जोगा सम्मत्ताई पसत्थ इयरो उ विवरीओ॥१०५२॥ द्रव्यद्वारे मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, इतरस्तु मिथ्या| त्वादिर्योगः, विपरीतोऽप्रशस्तः / प्रत्याख्यामीत्यवयवमाह-प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारनामं ठवणा दविए खित्तमदिच्छा य भावओ तं च / नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवो // 1 // नामस्थापनाव्यक्षेत्रा भावसर्वम् भा० गा. 189 : सावद्यव्याख्या नि० गा० 10511052 ******* // 446 //

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460