Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 452
________________ आवश्यक नियुक्तेरव चूर्णिः चालना प्रत्यवस्थानं च नि० गा० 10481049 // 444 // करोमि भदन्त ? सामायिक' मित्यत्र कः कारक इत्यत आह-तत्कुर्वन्नात्मैव, अथ किं कर्म यक्रियते, 'तेन' कर्ता तच्च तद्गुणरूपं सामायिकमेव, तुशब्दात् किं करणं?, उद्देशादिचतुर्विधमित्युत्तरं, एवं सत्याह-किं कारककरणयोः चशब्दात्कर्मणश्च परस्परतोऽन्यत्वमनन्यत्वं वा?, उभयथाऽपि दोषः, अन्यत्वे सामायिकवतोऽपि [ तत्फलस्य मोक्षस्याभावः, तदन्यत्वात्, अनन्यत्वे तु] तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इत्याक्षेपश्चालना // 1047 // प्रत्यवस्थानमाहआया हु कारओ मे सामाइय कम्म करणमाया य / परिणामे सइ आया सामाइयमेव उ पसिद्धी॥१०४८॥ करणं च उद्देशादिरूपं, तक्रियत्वादात्मैव, तथाप्युक्तदोषाभावः, परिणामे सत्यात्मा सामायिकमेव तु प्रसिद्धिः, तथाहि-न तदेकान्तेनान्यत्तद्गुणत्वात् , न चानन्यत्तद्गुणत्वादेव // 1048 // परिणामपक्षे सत्येकत्वानेकत्वपक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्था इत्याहएगत्ते जह मुहि करेइ अत्यंतरे घडाईणि / दबत्यंतरभावे गुणस्स किं केण संबद्धं ? // 1049 // 'एकत्वे' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टो यथा मुष्टिं करोति, अत्र देवदत्तः कर्त्ता तद्धस्त एव कर्म तस्यैव च प्रयत्नविशेषः करणं, तथाऽर्थान्तरे कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः, यथा घटादीनि करोतीति वर्त्तते, तत्र कुलालः कर्ता घटः कर्म दण्डादिकरणं / विपक्षे बाधामाह-द्रव्यादू गुणिनः सकाशादेकान्तेनैवार्थान्तरभावे-भेदे गुणस्य किं केन सम्बद्धं [न किंचित् ], एवमेकान्तेनाऽनन्तरभावे दोषा अभ्यूद्याः॥१०४९॥ - अथ सर्व सावधं योगमित्यत्र सर्वशब्दमाह H445 //

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460