Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ 特大前的刺 नमस्कारनियुक्तिः नि० गा० 955 आवश्यक दंड कवाडे मंथंतरे असा(सं) हरणया सरीरत्थे। भासाजोगनिरोहे सेलेप्ती सिज्झगा चेव // 955 // नियुक्तेरव इह समुद्धातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तौहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, चूर्णिः ततः समुद्वातं गच्छति, तस्य चायं क्रमः-इह प्रथमसमय एब स्वदेहविष्कम्भतुल्यविष्कम्भमूर्द्धमधश्चायतमुभयतोऽपि लोकान्त गामिनं जीवप्रदेशसंघातं [दण्डं] दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसार॥४१२॥ Pणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि, अनुश्रेणिगमनात् , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकललोकः पूरितो भवति, तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात्प्रतिलोमं मन्थान्तराणि संहरति-जीवप्रदेशान् सकर्मकान्सङ्कोचयतीत्यर्थः, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचनात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचनात्, अष्टमे समये कपाटमुपसंहृत्य शरीरस्थ एव भवति / असमर्थ चेतसि निधायोक्तं-दण्डः कपाट मन्थातराणि संहरता, प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात् , न चैतत्स्वमनीकाव्याख्यान, यत उक्तं वाचकमुख्येनोमास्वातिना-"दण्डं प्रथम समये कपाटमथ चोत्तरे तथा समये / मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु।१।संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् / 2 / " इति // इदानीं तस्य समुद्वातगतस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाक्कायास्तेषामिदं स्वरूपं-ओदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो // 412 //

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460