Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 18
________________ MADRAS-4 RESEARCH INSTITUTE, MYLAPORE. 613 आत्मतत्त्वविवेकः स्वाम्यं यस्य - निर्ज जगत्सु जनितेष्वाद ततः पालनं व्युत्पत्तेः करणं हिताहितविधिन्य । सेधसम्भावनम् । दीधितिः । शिष्टा (१)चारपरम्परा परिमाप्ताभिमतकर्मारम्भसमय कर्तव्यता कं कृतमिष्टदेवतानमस्कारं शिष्यान् (२) शिक्षयितुमादौ निबध्नाति, स्वाम्यमित्यादिना | ईशाय सार्वश्यादिशालिने नमः । श्रूयते हि, 'यः सर्वज्ञः सर्वविधस्य ज्ञानमयं तप: ( ३ ) । तस्मादेतद्ब्रह्म नाम रूपपत्रं च जायते ॥' , दीधितिटिप्पणी । 1 विवेकस्य भावोद्घाटन सामर्थ्यमिति सूचितम् । परिप्राप्तेति कर्तव्यताविशेषणम् । निर्विघ्नसमाप्ति विनाभावं वोहिभ्येत्यादिः । शिष्यान् शिक्षयितुमिति । एतदुपलक्षणम् । व्याख्यातृश्रोतॄणामपि प्रासङ्गिकं मङ्गलमुद्दिश्येत्यपि द्रष्टव्यम् । ईशित्वं न स्वामित्वम्, स्वास्य. मित्यनेन तदर्थप्राप्तेरत आह । ईशायेति । तस्मादिति । तस्मा (१) ननु स्वाम्यमित्यादिपद्येनोपनिबद्धस्येश्वरनमस्कारस्य ग्रन्थारम्भसमये ग्रन्थकृतामाचरणमफलम्, तत्कर्तव्यता साधकवेदस्य प्रचारात्, लौकिकप्रमाणस्याऽनवकाशात् । एवं तदुपनिबधनमप्यफलम्, तत्कथं विशेषदर्शिनामाचार्यांणा तदाचरणं तदुपनिबन्धनं वा सङ्गच्छत इत्याशङ्का परिहरति । शिष्टति । शिष्टाचारपरम्परा, भ्रमाजन्यसमी हितकर्मारम्भकालीन पूर्वपूर्वसमाप्तिकामपुरुषीयनमस्कार। दिरूपमङ्गलगोचरप्रवृत्तिपरम्परा, ततः परिप्राप्ता सिद्धा अभिमतकर्मारम्भसमय कर्तव्यता इष्टसमाप्तिसाधनी भूतकृतिविषयता यस्य तादृशमित्यर्थः । तत्सिद्धिश्च मङ्गलाचारः प्रारिप्तितसमातिसाधनम्, समातिका मनाधीनभ्रमाजन्या चारत्यात्, या भ्रमाजन्या यस्कामनाधीना कृतिः सा तत्कलसाधनं, तृत्त्यादिकामाभ्रान्त पुरुषी यतृप्त्यादिसाधनभोजनादिकृतिवादित्यनुमानात् । एकयादिराचारो भ्रममूलकोsपि सम्भवतीति कथं मङ्गलाचारे भ्रमामूलकत्वावधारणमित्याशङ्कानिराकरणाय परम्परेति भणितम् । - गदाधरः । (२) निबन्धनस्य निष्प्रयोजनत्यमाशङ्कयाSSs | शिष्यानिति । निबध्नाति श्लोकेन बोधयति । पदस्यैव वाचिकनमस्कारत्वे प्रकृतश्लोके तदन्तर्भाव एवोपनिबन्धः । (३) ज्ञानमयं तप इत्यत्र ज्ञानमेव तपःशब्दवाच्यमित्यर्थः । तपसः सृष्टिहेतुत्वबोध के 'ऋतं सत्यं चाभी सो ऽध्यजायत इत्यादिवेदे ऽपि तदेव तपः पदार्थः । याविषयकं श्रवणादिरूपतानमेवान्येषा तप इति केचित् । - गदाधरः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 217