________________
MADRAS-4 RESEARCH INSTITUTE, MYLAPORE.
613
आत्मतत्त्वविवेकः
स्वाम्यं यस्य - निर्ज जगत्सु जनितेष्वाद ततः पालनं व्युत्पत्तेः करणं हिताहितविधिन्य । सेधसम्भावनम् ।
दीधितिः ।
शिष्टा (१)चारपरम्परा परिमाप्ताभिमतकर्मारम्भसमय कर्तव्यता कं कृतमिष्टदेवतानमस्कारं शिष्यान् (२) शिक्षयितुमादौ निबध्नाति, स्वाम्यमित्यादिना | ईशाय सार्वश्यादिशालिने नमः । श्रूयते हि, 'यः सर्वज्ञः सर्वविधस्य ज्ञानमयं तप: ( ३ ) । तस्मादेतद्ब्रह्म नाम रूपपत्रं च जायते ॥'
,
दीधितिटिप्पणी ।
1
विवेकस्य भावोद्घाटन सामर्थ्यमिति सूचितम् । परिप्राप्तेति कर्तव्यताविशेषणम् । निर्विघ्नसमाप्ति विनाभावं वोहिभ्येत्यादिः । शिष्यान् शिक्षयितुमिति । एतदुपलक्षणम् । व्याख्यातृश्रोतॄणामपि प्रासङ्गिकं मङ्गलमुद्दिश्येत्यपि द्रष्टव्यम् । ईशित्वं न स्वामित्वम्, स्वास्य. मित्यनेन तदर्थप्राप्तेरत आह । ईशायेति । तस्मादिति । तस्मा
(१) ननु स्वाम्यमित्यादिपद्येनोपनिबद्धस्येश्वरनमस्कारस्य ग्रन्थारम्भसमये ग्रन्थकृतामाचरणमफलम्, तत्कर्तव्यता साधकवेदस्य प्रचारात्, लौकिकप्रमाणस्याऽनवकाशात् । एवं तदुपनिबधनमप्यफलम्, तत्कथं विशेषदर्शिनामाचार्यांणा तदाचरणं तदुपनिबन्धनं वा सङ्गच्छत इत्याशङ्का परिहरति । शिष्टति । शिष्टाचारपरम्परा, भ्रमाजन्यसमी हितकर्मारम्भकालीन पूर्वपूर्वसमाप्तिकामपुरुषीयनमस्कार। दिरूपमङ्गलगोचरप्रवृत्तिपरम्परा, ततः परिप्राप्ता सिद्धा अभिमतकर्मारम्भसमय कर्तव्यता इष्टसमाप्तिसाधनी भूतकृतिविषयता यस्य तादृशमित्यर्थः । तत्सिद्धिश्च मङ्गलाचारः प्रारिप्तितसमातिसाधनम्, समातिका मनाधीनभ्रमाजन्या चारत्यात्, या भ्रमाजन्या यस्कामनाधीना कृतिः सा तत्कलसाधनं, तृत्त्यादिकामाभ्रान्त पुरुषी यतृप्त्यादिसाधनभोजनादिकृतिवादित्यनुमानात् । एकयादिराचारो भ्रममूलकोsपि सम्भवतीति कथं मङ्गलाचारे भ्रमामूलकत्वावधारणमित्याशङ्कानिराकरणाय परम्परेति भणितम् । - गदाधरः ।
(२) निबन्धनस्य निष्प्रयोजनत्यमाशङ्कयाSSs | शिष्यानिति । निबध्नाति श्लोकेन बोधयति । पदस्यैव वाचिकनमस्कारत्वे प्रकृतश्लोके तदन्तर्भाव एवोपनिबन्धः ।
(३) ज्ञानमयं तप इत्यत्र ज्ञानमेव तपःशब्दवाच्यमित्यर्थः । तपसः सृष्टिहेतुत्वबोध के 'ऋतं सत्यं चाभी सो ऽध्यजायत इत्यादिवेदे ऽपि तदेव तपः पदार्थः । याविषयकं श्रवणादिरूपतानमेवान्येषा तप इति केचित् । - गदाधरः ।