________________
613
टिप्पणी समलङ्कृतदीधिति - कल्पकता यूटीकाद्वयविभूषितः । भूतोक्तिः सहजा कृपा निरुपधि (१) यत्नस्तदर्थात्मकस्तस्मै पूर्वगुरुतमाय जगतामीशाय पित्रे नमः ॥१॥
दीधितिः ।
सर्वज्ञ इति सामान्यतः, सर्वविदिति च विशेषतः, ब्रह्म
हिरण्यगर्भाख्यम् । स्मर्यते च,
'सर्वज्ञता तृप्ति ( २) रनादिबोधः
स्वतन्त्रता (३) नित्यमलुप्तशक्तिः । अनन्वशक्तिश्च विभोर्विधिज्ञाः (४) षडाहुरङ्गानि (५) महेश्वरस्य ( ६ ) ॥' दीधितिटिप्पणी ।
1
देव जायते नाम च जायते ( रूपं च जायते ) * अन्नं च जायत इत्यर्थः । नामरूपमित्यत्राऽपि ब्रह्मेति सम्बद्ध्यते, तथा च नामरूपं ब्रह्म शब्दात्मकं ब्रह्म जायत इति वार्थः । पौनरु. त्यादाह । सर्वज्ञेति । तथा च सर्वशपदात् सामान्यधर्मप्रकारकं "ज्ञानं लब्धं सर्ववित्पदाश्च तदूघटत्वादिविशेषधर्मप्रकारकज्ञानं लब्धमिति समुदायार्थः । सर्वज्ञत्वादिगुणशालिन ईश्वरपदाभिधेयत्वं श्रुतितः साक्षान लब्धमत आह । स्मर्यते चेति । सर्वशत्वादिषड्गुणशालिनि स्मृत्येश्वरपदं सङ्केतितमिति भाषः (७) । तृप्तिः भोजनाद्यभावजन्यदुःखाभाववता । स्वतन्त्रता अप्रतिहतेच्छा । अलुप्तशक्तिः निश्यकृतिः । अनन्तेति । शक्तेः सर्वोपादानविषयत्वं सर्वविषयत्वं erssनन्त्यम् । अत्रैकैक विशेषण बलादे वेतरव्यावृतिसम्भवे षडुपा
( १ ) निरवधि: - पाठः ।
(२) स्वीयसुखेच्छावदन्यत्वम् । स्वमन्यत्वप्रतियोगी जीवः प्रसिद्धोऽत ईश्वरस्य प्रीतिरूपतृतिविरहेऽपि न क्षतिः । - गदाधरः । (३) धर्माधर्माधीनतेत्यर्थः । (४) विधिज्ञाः वेदतत्त्वविदः । (५) धर्मनित्यर्थः । (६) महेश्वरस्येति । ईशपदं त्वेतत्पर्याय एवेति भावः ।
( ) इति चिन्हितोंऽशः संशोधक काल्पतः । एवममेऽपि बोध्यम् ।
(५) अथैवं सति 'जगतामीशाय जगज्जननानुकूलकृतिशक्तिमते' इति कथं शङ्करमिश्रः, एतय एव 'जगञ्जननानुकूलचिच्छा कमते' इति गुणातीतोऽपीत्यादिमणिकारपये 'ईशः भम.ते