________________
न्यायाचार्य श्रीमदुदयनाचार्यविरचितः
आत्मतत्त्वविवेकः ।
ॐ नमो गणेशाय ।
तार्किक शिरोमणिरघुनाथकृता आत्मतत्वविवेकदीधितिः ।
श्रीगणेशाय नमः |
ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ १ ॥ निर्णीय ( १ ) सारं शास्राणां तार्किकानां शिरोमणिः । आत्मतत्वविवेकस्य भावमुद्भावयत्ययम् ॥ २ ॥
श्री राम कलङ्कारभट्ट । चार्यकृता आत्मतत्वविवेकदीधितिटिप्पणी ।
श्रीकृष्णाय नमः |
श्री गोविन्दपदद्वन्द्वं प्रणम्य परमादरात् । हृदि कृत्वा च निखिलं सार्वभौमस्य सद्वचः ॥ १ ॥ आत्मतत्त्वविवेकस्य व्याख्यां दीधितिकृत्कृताम् । प्रकाशयति यज्ञेन श्रीरामः सुधियां मुद्दे ॥ २ ॥ निर्णीयेति । तथा वाऽनेकशास्त्र सारनिर्णयाधीन मेवाSSत्मतत्व
(१) शिष्याणामुपग्रहाय स्वग्रन्थं प्ररोचयन् कीर्तये स्वस्याऽनुष्ठेयस्य च नामनी बोधय व्याख्येयग्रन्थप्रयोजनाभिधेयसम्बन्धेनैव स्वग्रन्थस्याऽपि तद्वत्तां सूचयति । निर्णीयेत्यादि । स रेम तात्पर्यम् । शास्त्राणाम्, आस्तिकनास्तिकप्रणीतानाम् । आम्मतस्त्वविवेकस्य प्रकृते are | भावम् जबकीभूतं तात्पर्यमाचार्यनिष्ठम् ।