________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥४९॥
शेष्यकनियोगानुभवानुरोधेन कार्यप्रेरणयोः “सम्बन्धो नियोगः कल्प्यत इति षष्ठः, विशेषणविशेष्यभावे विनिगमका- भावात् स्वातन्त्र्ययोगानुभूयमानत्वाच तेषां कार्यप्रेरणासम्बन्धानां समुदायो नियोगः खण्डशस्त्रिषु शक्तिकल्पनादिति सप्तमः, तिदुभयस्वभावविनिर्मुक्तो घटादिवदकार्यत्वाद्वचनादिवदप्रेरकत्वाच्च कार्यप्रेरणोभयस्वभावरहितो ब्रह्मात्मैव नियोगस्तद्विवर्तस्यैवावस्थाविशेषस्य वेदवाक्यात् प्रतीतेरखण्डमेव हि वाक्यमखण्ड एव च वाक्यार्थ इति सिद्धान्तादित्यष्टमः इयन्त्रारूढो दृष्टान्ततया यत्र स यंत्रारूढो विषयारूढत्वाभिमानो नियोग इत्यर्थः । अत्र चाऽऽरूढत्वेऽभिमाने च लिङःशक्तिः, आरूढत्वे निरूपितत्वेन विषयस्य, तस्य च स्वरूपसम्बन्धेनाभिमाने, तस्य च समवायेन कामिन्यन्वय इति यजेत स्वर्गकाम इत्यतो यागारूढत्वाभिमानवान् स्वर्गकाम इति बोधइति नवमः, $भोग्यरूपो नियोगइति दशमः । अत्र लिङो भोग्ये शक्तिस्तस्य भोगसम्बन्धेन स्वर्गकामान्वितस्य तादात्म्येन यागेऽन्वय इति स्वर्गकामभोग्यो याग इति बोधः, यद्यपि भोग्यत्वं फलनिष्ठं तथापि विषयनिष्ठतया तज्ज्ञानं प्रवर्त्तकमित्येतत्प्रकारानुसरणम् १० पुरुष एव नियोग इत्येकादशः, अत्र कार्यत्वेन कार्ये कार्यविशिष्टत्वेन कार्यविशिष्टे वा शक्तेः स्वर्गकामो यागकार्यों यागकार्यविशिष्ट इति वा बोधः। किञ्च नियोगः सकलोऽपीत्यादि निश्चिताप्रामाण्यकत्वाविशेषितनियोगाश्रयणेयं दोषः, अन्यथा नियोगातिरिक्तविधिवाक्यार्थवादेऽप्येतत्पक्षद्वयकृतदोपानतिवृत्तेर्माध्यमिकमताश्रयणेन चैतदोषाभिधानमिति द्रष्टव्यम् । अभ्रान्तप्रवृत्ती नियोगहेतुत्वे न दोष इत्याशयवान्
* पत्र १५ पृ. १ प. ५। + पत्र १५ पृ. १ पं. ७ । पत्र १५ पृ. १ पं. ८। पत्र १५ पृ. १ पं. ९। पत्र १५ पृ. १ पं. १०। पत्र १५ पृ. १ पं. १४ । + पत्र १६ पृ. २ पं. १३ ।
॥४९॥
For Private And Personal Use Only