________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
योग्यता, तच्च दुर्ग्रहमिति, तस्मात्कार्यमपूर्वमेव विध्यर्थस्तस्मिन् यागस्य विषयतयाऽन्वयः, कार्यत्वेन कार्यसामान्य एव शक्तिग्रहेऽपि च योग्यताबलादपूर्वव्यक्तेर्लाभः, नहि यागविषयकमन्यत् कार्य सम्भवति, स्वज्ञानादिकं सम्भवतीति चेत् , न। तत्र स्वर्गकामस्यान्वयासम्भवात् , स हि नियोज्यनियोजकमावलक्षणस्तत्र स्वर्गकामो नियोज्यः, कार्य च नियोजक नियोजकत्वं च तत्कामिकार्यतया प्रतीयमानत्वम् , तत्र चान्वयप्रयोजकं काम्यसाधनत्वम्, न च काम्यस्वर्गसाधनत्वं यागविषयकज्ञानादौ सम्भवतीति योग्यताबलाद् यागविषयकं कार्य स्वर्गकामीयं स्वर्गकामो यागविषयककार्यवानित्येव वानुभवो भवन् योग्यतयाऽपूर्वमालम्बते । एवं च काम्ये क्लप्तशक्तिर्लिङ् नित्यनिषेधविधिस्थलेऽप्यपूर्वमाह'लोके च पचेदि' त्यादावपूर्वे तात्पर्याभावात् कार्यत्वे लक्षणेति, शुद्धप्रेरणादयो नियोगा एकदेशिनां भ्रान्तानां
वा मते, तत्र शुद्धा प्रेरणा नियोग इति पक्षे प्रेरणाया नियोज्यतारूपत्वात् यागनिरूपितनियोज्यतावान् स्वर्गकाम इत्य| यमाद्यो बोधः, ततो नियोज्येन नियोजकाक्षेपात् यागविषयकं स्वर्गकामीयं नियोजकमित्यौपादानिकोऽपूर्वविषयो द्वितीय इत्यादि बोध्यम् । प्रेरणासहितं कार्य नियोग इति पक्षे प्रेरणा नियोजकत्वं तद्विशिष्टे कार्ये लिङः शक्तिः, तत्र कार्ये यागस्य विषयतया नियोजकत्वे चैकदेशेऽपि स्वर्गकामस्य निरूपकतया व्युत्पत्तिविशेषादन्वय इति द्रष्टव्यम् । तुर्यः पक्षोऽप्यनयैव दिशा व्याख्येयः। परं प्रेरणाविशेष्यकानुभवानुरोधाद्भेदः४, *कार्यस्यैवापूर्वस्य सम्बन्धितया तत्त्ववृत्त्या शब्दप्रमाणनिष्ठमप्यु+पचारत आरोप्यमाणं ज्ञानगतप्रत्यक्षत्वमिव विषयनिष्ठतया प्रवर्तकत्वं नियोग इति पञ्चमः, सम्बन्धमुख्यवि
• पत्र १५ पृ. १ पं. ४ । । पत्र १५ पू. १ पं. ४ । पत्र १५ पृ. १ पं. ४ ।
For Private And Personal Use Only