Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 785
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् । ॥३६२।। तथाविधस्यापि तदलक्षणत्वे हि न किंचित्कस्यचिल्लक्षणं स्यादिति लक्ष्यलक्षणभाव एवोच्छिद्येत । सति चान्यथानुपपन्नत्वे प्रतिपाद्या-1 परिच्छेदः शयवशात् प्रयोगपरिपाटी पञ्चावयवादिरपि न निवार्यते इति तत्त्वार्थालङ्कारे विद्यानन्दमहोदये च प्रपञ्चतः प्ररूपितम् । ततः स्याद्वा दशमः॥ देत्यादिनानुमितमनेकान्तात्मकमर्थतत्त्वमादर्शयति । तदेव हि स्याद्वादप्रविभक्तोर्थः, प्राधान्यात्-सर्वाङ्गव्यापित्वात् । तस्य विशेषो नित्यत्वादिः पृथक् पृथक् । तस्य प्रतिपादको नयः । इति नयसामान्यलक्षणमप्यनेन दर्शितमिति व्याख्यायते । तथा चोक्तम्'अर्थस्थानेकरूपस्य, धीः प्रमाण, तदंशधीः ॥ नयो धर्मान्तरापेक्षी, दुर्णयस्तन्निराकृतिः ॥११॥ इति । तदनेकान्तप्रतिपत्तिः प्रमाणमेकधर्मप्रतिपत्ति यस्तत्प्रत्यनीकप्रतिक्षेपो दुर्णयः, केवलविपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशात् ।।। १०६॥ किं पुनर्वस्तु स्यादित्याहुःनयोपनयकान्तानां, त्रिकालानां समुच्चयः॥ अविभ्राड्भावसम्बन्धो, द्रव्यमेकमनेकधा ॥ १०७॥ ____ उक्तलक्षणो द्रव्यपर्यायस्थानः संग्रहादिर्नयः, तच्छाखाप्रशाखात्मोपनयः । तदेकान्तानां विपक्षोपेक्षालक्षणानां त्रिकालविषयाणां समितिद्रव्यं वस्तु, 'गुणपर्यायवद्र्व्यम्' इति वचनात् । कः पुनस्तेषां समुच्चयो नामेति चेत् , कथंचिदविभ्राड्भावसंबन्ध इत्याचक्षते, ततोन्यस्य समुच्चयस्य संयोगादेरसंभवात् द्रव्यपर्यायविशेषाणाम् । न चैवमेकमेव द्रव्यं नयोपनयकान्तपर्यायाणां तत्तादात्म्यादित्यारेकितव्यं, ततस्तेषां कथंचिद्भेदादनेकत्वमिति वचनात् । तानेकमेवास्तु तादात्म्यविरोधादनेकस्थस्येत्यपि न शङ्कितव्यं, कथंचित्तादात्म्यस्याशक्यविवेचनत्वलक्षणस्याविरोधात्तथाप्रतीतेः । केवलं ततस्तेषामपोद्धाराद्गुणगुण्यादिवत् तदनेकधा । ततः सूक्तं, त्रिकालवर्तिनयोपनयविषयपर्यायविशेषसमूहो द्रव्यमेकानेकात्मकं जात्यन्तरं वस्त्विति ॥१०७॥ अत्र परारेकामुपदश्य परिहरन्तः सूरयः प्राहुःमिथ्यासमूहो मिथ्या चे-न्न मिथ्र्यकान्ततास्ति नः॥ निरपेक्षा नया मिथ्या, सापेक्षा वस्तु तेऽर्थकृत्॥१०८ ॥३६२॥ .41 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793