Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
856-
वाक्स्वभावोन्यवागर्थ-प्रतिषेधनिरङ्कुशः॥ आह च स्वार्थसामान्यं, तादृग् वाच्यं खपुष्पवत्॥१११॥
वाचः स्वभावोयं येन स्वार्थसामान्य प्रतिपादयन्ती तदपरं निराकरोति, न पुनस्तदप्रतिपादयन्ती, स्वार्थसामान्यप्रतिपादनतदन्यनिराकरणयोरन्यतरापायेनुक्तानतिशायनात् । इदंतया नेदंतया वा न प्रतीयेत तदर्थः कूर्मरोमादिवत् । न खलु सामान्य विशेषपरिहारेण विशेषो वा सामान्य परिहारेण कचिदुपलभामहे । अनुपलभमानाश्च कथं स्वं परं वा तथाभिनिवेशेन विप्रलभामहे, विध्येकान्तवदन्यापोहैकान्तस्य प्रागेव व्यासेन निरस्तत्वात् ॥ १११ ॥ भूयोप्यन्यापोहवादिनमाशक्य निराकुर्वतेसामान्यवाग् विशेषेचे-न्न शब्दार्थो मृषा हिसा॥अभिप्रेतविशेषाप्तेः, स्यात्कारः सत्यलाञ्छनः॥११२॥ ____ अस्तीति सत्सामान्यवागू केवलमभावविच्छेदाद् विशेषमपोहमाहेति चेत्, कः पुनरपोहः ? किमन्यव्यावृत्तिरुत तथा विकल्पः ? परतो व्यावृत्तिरभावोन्यापोह इष्यते इति चेत् , कथमेवं सत्यभावं प्रतिपादयति ? भावं न प्रतिपादयतीत्यनुक्तसमं न स्यात् ? तद्विकल्पोन्यापोहोस्तु मिथ्याभिनिवेशादिति चेत्, न चैतत्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद्वयलीकवचनवत् । ततो नान्यापोहः शब्दार्थः सिद्धचति, येन तत्र प्रवर्तमानास्तीत्यादिसामान्यवागू मृषैव न स्यात् । ततः स्यात्कारः सत्यलाञ्छनो मन्तव्यः स्वाभिप्रेतार्थविशेषप्राप्तेः । सर्वो हि प्रवर्तमानः कुतश्चिद्वचनात् कचित्स्वरूपादिना सन्तमभिप्रेतमर्थ प्राप्नोति, न पररूपादिनानभिप्रेत, प्रवृत्तिवैयात् , स्वरूपेणेव पररूपेणापि सत्त्वे सर्वस्याभिप्रेतत्वप्रसङ्गात् , परात्मनेव स्वात्मनाप्यसत्त्वे सर्वस्याभिप्रेतत्वाभावात् स्वयमभिप्रेतस्याप्यनभिप्रेतत्वप्रसक्तेश्च ॥ ११२ ॥ ततः स्याद्वाद एव सत्यलाञ्छनो न वादान्तरमित्यतिशाययति भगवान् समन्तभद्रस्वामी । विधेयमीप्सितार्थाचं, प्रतिषेध्याविरोधि यत् ॥ तथैवादेयहेयत्व-मिति स्याद्वादसंस्थितिः॥११३॥
For Private And Personal Use Only

Page Navigation
1 ... 786 787 788 789 790 791 792 793