Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्त्री विवरणम् ॥ ॥३६५॥
परिच्छेद दशमः॥
अत्र शास्त्रपरिसमाप्तौ केचिदिदं मङ्गलवचनमनुमन्यन्ते,जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् , विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् ॥ यतिपतिरजो यस्याधृष्यान्मताम्बुनिलवान् , स्वमतमतयस्ती. नाना परे समुपासते ॥११५॥ श्रीमदकलकदेवाः पुनरिदं वदन्ति- (स्वभाष्यपरिसमाप्तिमङ्गलं) श्रीवर्धमानमकलङ्कमनिन्धवन्ध-पादारविन्दयुगलं प्रणिपत्य मूर्धा ॥ भव्यैकलोकनयनं परिपालयन्तं, स्याद्वादवर्त्म परिणौमि समन्तभद्रम् ॥१॥ इति ।।
॥ इत्याप्तमीमांसालंकृतौ दशमः परिच्छेदः ॥ परापरगुरुप्रवाहगुणगणसंस्तवस्य मङ्गलस्य प्रसिद्धेवयं तु स्वभक्तिवशादेवं निवेदयामः-- येनाशेषकुनीतिवृत्तिसरितः प्रेक्षावतां शोषिताः, यद्वाचोप्यकलङ्कनीतिरुचिरास्तत्वार्थसार्थद्युतः ॥ सश्रीस्वामिसमन्तभद्रयतिभृद् भूयाद्विभुर्मानुमान , विद्यानन्दनघनप्रदोऽनघधियां स्याद्वादमार्गाग्रणीः॥१॥ श्रीमदकलङ्कशशधर-कुलविद्यानन्दसंभवा भूयात् । गुरुमीमांसालंकृति-रष्टसहस्री सतामृद्ध्यै ॥२॥
वीरसेनाख्यमोक्षगे, चारुगुणानर्घ्यरत्नसिन्धुगिरिसततम् ॥
सारतरात्मध्यानगे, मारमदाम्भोदपवनगिरिगह्वरायि तु ॥३॥ अष्टसहस्री सिद्धा, साष्टसहस्रीयमत्र मे पुष्यात् ॥ शश्वदभीष्टसहस्री, कुमारसेनोक्तिवर्धमानार्था ॥ ४॥
॥३६५॥
For Private And Personal Use Only

Page Navigation
1 ... 789 790 791 792 793