Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।
परिच्छेदः दशमः ॥
॥३५५||
विशिष्टवैशिष्ट्वेनान्वयः । न चैवं नीलत्वेन घटत्वेन च घटयोरपि बोधः स्यादिति वाच्यम् , व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमेन नीलत्वेन घटत्वेन चैकस्यैव बोधात् , अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणातीत्यादावरुणया क्रीणाति एकहायन्या क्रीणातीत्यादिबोधेऽपि यथारुण्येन गुणेन क्रयासाधनेन प्राप्तक्रयसाधनताकगोरूपद्रव्यपरिच्छेदकतयैव क्रयसाधनत्वं प्रतीयत इत्याहुः, तदसत् , विशिष्टवैशिष्ट्यबोधान्वयस्यैवात्र युक्तत्वात् , अन्यथा वाक्यभेदापत्तेः, नीलघटमानयति न वेति संशयापत्तेः, नीलं घटं नानयतीत्यभावविशेषबोधान्यथानुपपत्तेश्च । यत्तु आकाङ्क्षायाः संशये शाब्दबोधानुदयात्तनिश्चयत्वेन हेतुत्वं वाच्यम् , तथा च लाघवादनाकासत्वज्ञानमेव प्रतिबन्धकमस्तु, न च ज्ञानत्वेन प्रतिबन्धकत्वेप्रामाण्यनिश्चया| नास्कन्दितत्वप्रवेशे गौरवं, तवाप्याकाङ्क्षानिश्चयविशेषणाभावप्रतियोग्यप्रामाण्यज्ञाने तदप्रामाण्यनिश्चयानास्कन्दितत्वप्रवेशे गौरवात् । अनाकासत्वज्ञानवत्यपि घटाद्यवच्छेदेन समवायेन तदभावसत्त्वादवच्छेदकतासम्बन्धेन प्रतिबन्धकत्वस्य च भूतावेशस्थले एकशरीरावच्छेदेनात्मद्वये ज्ञानस्वीकारादसम्भवात् , एकावच्छेदेनैकात्मवृत्तित्वप्रत्यासयुक्ती गौरवं त्वाकालानिश्चयहेतुत्वेऽपि तुल्यम् , अन्यथा कायव्यूहादिस्थलेऽसम्भवादिति, तदसत् , निराकासत्वतद्व्याप्यादिमत्ताग्रहप्रतिबन्धकत्वकल्पने गौरवात् , यदपि साकाङ्क्षपदज्ञानजन्यपदार्थोपस्थितिरेव तत्वेन हेतुः, न वाकाङ्क्षाज्ञानं तच्चेन, घटमित्याद्यानुपूर्वीज्ञानस्य कुम्भमित्याद्यानुपूर्वीज्ञानस्य घटः कर्मत्वमित्यादिज्ञानजन्योपस्थितिसहकारेण बोधकत्ववारणायोक्तरूपेण हेतुत्वस्यावश्यकत्वादिति, तदपि न, घटमित्याद्यानुपूर्वीज्ञानस्य स्वघटकादेशादिस्मारितान्यतरपदज्ञानजन्यघटकर्मत्वाद्युपस्थितिसम्बन्धेन घटीयं कर्मत्वमित्यादिशाब्दबोधहेतुत्वेनोक्तदोषाभावात् , घटमित्यादिवाक्यजन्यावान्तरवाक्यार्थबोधादिरूपपदार्थोपस्थिति-
SARKAR
३५५॥
For Private And Personal Use Only

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793