Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥३५६॥
परिच्छेदः दशमः॥
SSASSASSAGAR
इष्टत्वात् , विरोधिनिश्चयस्यैव चाहार्यत्वप्रयोजकत्वेन तच्छाब्दस्याहार्यत्वानापत्तेः, बाधबुद्धौ भ्रमत्वज्ञानाङ्गीकारादा । किञ्च यत्र स्थलविशेषे बाधधीकाले योग्यताज्ञानं तत्र तस्य हेतुत्वध्रौव्ये विशेष्यतावच्छेदकतया तत्पुरुषीयशाब्दत्वावच्छिन्ने तया तत्पुरुपीययोग्यताज्ञानत्वेन हेतुत्वसिद्धिः, यत्र चालौकिकयोग्यताधीकाले लौकिकबाधधीस्तत्र तस्याः प्रतिबन्धकत्वस्वीकारान्न दोषः । किञ्च स्थूलजलपरस्य पयसा सिञ्चतीत्यादेरयोग्यत्वाय विशेष्यतया योग्यताज्ञानहेतुत्वसिद्धिः, बाधबुद्ध्यभावस्य धर्मितावच्छेदकान्तर्भावेनैव नव्यनये हेतुत्वादित्यन्यत्र विस्तरः, तस्माच्छाब्दज्ञानहेतुर्योग्यता निर्वक्तव्येति चेत् , अत्रोच्यते, एकपदार्थेऽपरपदार्थसंसर्गवत्वं तेन संसर्गेणापरपदार्थवत्वं वा योग्यता, न च वाक्यार्थस्यापूर्वत्वात्तदुज्ञेयता, प्रत्यक्षादिना संशयसाधारणतज्ज्ञानहेतुत्वस्वीकारेणादोषात् , गन्धप्रागभावकालावच्छिन्नो घटो गन्धवानित्यादौ तद्गन्धप्रागभावकालाद्यवच्छिन्नगन्धसमवायस्य तद्घटेऽभावादयोग्यत्वं, न चैवमेकविध्यर्थयोः कृतीष्टसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम् , एकपदार्थ इत्यादेरेकवृत्तिविषयेऽपरवृत्तिविषयसंसर्गवचमित्यर्थात् , एवमेवकारादिस्थलेऽपि विचारणीयम् । आसत्तिरव्यवधानेनान्वयप्रतियोग्युपस्थितिः, एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थितिरिति यावत् , अव्यवधानं व्यवधानाभावः, वेन युगपन्नानापदार्थोपस्थितावपि न क्षतिः, तच्चार्थसिद्धं तत्तत्पदार्थशाब्दबुद्धौ तत्तत्पदार्थोपस्थितेहेतुतया विनाऽव्यवहितोपस्थिति शाब्दबोधासम्भवात् , अस्याः स्वरूपसत्या एव हेतुत्वादासत्चिनिश्चयहेतुत्वं कुत इतिचेत्, न कुतश्चित् , वृत्या पदजन्यपदार्थोपस्थितेः स्वरूपसत्या एव हेतुत्वात् , न चानुपदोक्तानुपूर्वीज्ञानस्य निरुक्तोपस्थिविसम्बन्धेन हेतुत्वात्किमनयेति वाच्यम् , व्याधिज्ञानदण्डादेः स्वजन्यपरामर्शचक्रभ्रम्यादिसम्बन्धेन हेतुत्वेपि परामर्शचक्र
DIL॥३५६॥
For Private And Personal Use Only

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793