Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 774
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir भ्रम्यादिहेतुत्ववदासत्तेरपि तत्त्वात् , व्यापारस्य व्यापारिणाऽन्यथासियभावात् , आसत्तिनिश्चयहेतुत्वोक्तिस्तु प्राचां मतेनेति नव्याः । मिश्रास्तु ननु एकपदार्थोपस्थित्यव्यवधानविशिष्टापरपदार्थोपस्थिति सत्तिः, गिरिभुक्तमग्निमान् देवदत्तेनेत्यत्रा-18 निमत्पदार्थोपस्थितौ सत्यां तदव्यवहितोत्तरक्षणे तस्यां गिर्युपस्थित्यव्यवधानभ्रमस्वीकारे भ्रमस्यैव निरुक्ताव्यवधानविशिष्टोपस्थितिरूपासत्तितया तद्बमहेतुत्वे सिद्धान्तभङ्गप्रसङ्गात् , नाप्युपस्थापकपदाव्यवहितपदोपस्थितिः सा, व्यवहिते पदेऽपरपदाव्यवहितोत्तरत्वभ्रमस्येवासत्तितया तद्दोषतादवस्थ्यात् , न चोपस्थापकपदाव्यवधानं सा, इत्थं च व्यवहितोक्तपदेऽव्यवहितत्वभ्रमसम्भवानानुपपत्तिरिति वाच्यम् , मौनिश्लोकादौ पदाभावेनासत्यभावापत्तेः, अत एवोच्चारणाव्यवधानं सेति परास्तं, न चोपस्थापकस्य पदस्य तदर्थस्य वाऽव्यवहितोपस्थित्यनुकूलव्यापारः, सा च क्वचिदन्यवहितोच्चारणं क्वचिल्लिप्यादिकं च, इत्थं च व्यवहितोच्चरितादावप्यव्यवहितोच्चरितत्वादिभ्रमः सम्भवतीति वाच्यम् । तर्हि योजनादिनापि श्लोकादावन्वयबोधाभावापत्तेः । वक्त्रा व्यवहितोचरितमिति विशेषदर्शनेऽव्यवहितोच्चरितमिति भ्रमासम्भवात् , एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थित्यनुकूलव्यापारस्येति वाच्यतयैकपदार्थयोः परस्परमनन्वयापत्तेश्चेति चेत् , सत्यम् , एकत्वापरत्वयोर्न पदविशेषणत्वं, किन्त्वर्थविशेषणत्वमेवेत्यनुपदोक्तदोषाभावात् , वस्तुत एकपदार्थत्वमेकवृत्तिविषयत्वम् , अपरपदार्थत्वमपरवृत्तिविषयत्वं, तेन घटभेदो न घट इत्यादौ पदार्थाभेदेऽपि न क्षतिः । मेयाभिधेयादिबोधकतदादिपदार्थयोरेकवृत्तिविषयत्वे त्वेकापरवृत्तिविषयतावच्छेदकावच्छिन्नत्वमेकापरपदार्थत्वं वाच्यम् । व्यवहितोचरिते च पदतात्पर्यमेव तथाव्यापारः, तदेव योजनया ज्ञाप्यते, शुकादिवाक्ये तु शिक्षयितुरेव तथाव्यापारः, ईश्वरस्यैव वा, न च यत्र तात्पर्य व्यवधानेनो FASCHAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793