Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 782
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तरोत्तरा अल्पविषयाः शब्दविकल्पपरिमाणाश्च । तदेवं व्याख्यातः सप्तभङ्गनयापेक्षः स्याद्वादो हेयादेयविशेषकः प्रसिद्धस्तमन्तरेण यस्योपादेयस्य च विशेषेण व्यवस्थानुपपत्तेः । सर्वतत्त्वप्रकाशकच केवलज्ञानवत् ।। १०४ ॥ एतदेव दर्शयति- अर्थप्रधानत्वात् शब्दतद्धर्मभेदेनार्थभेदास्वीकर्तुत्वात्, शब्दप्रधानत्वाच्छन्दतद्धर्म्मभेदेनार्थभेदस्वीकर्तुत्वात् एवं नमोऽप्यशुद्ध्या प्रवर्त्तत इति अशुद्धिस्त्र भेदपरता, द्रव्यार्थिकेऽभेद भेदयोरेव शुद्ध्यशुद्धिपदार्थत्वादिति यथास्थानं भावनीयम् । द्रव्ययोरित्यादि अभिलापश्चात्रात्मा पुद्गली मनुष्यपर्यायो देवपर्यायोत्तरः द्रव्यमनन्तपर्यायवदित्यादिः । शुद्धद्रव्यनैगमो यथाऽऽकाशद्रव्यं धर्मद्रव्यसंयुक्तमिति । अशुद्धद्रव्यनैगमो यथा घटद्रव्यं पटद्रव्यसंयुक्तमिति । अर्थपर्याययोर्नेगमस्त्रिविधो यथा मतिज्ञानं श्रुतज्ञानसहचरितमिति ज्ञानरूपार्थपर्याययोः, मतिविषयपर्यायः श्रुतविषयपर्यायसदृश इति ज्ञेया पर्याययोः, ग्राहकाकारो ग्राह्याकारानुगत इति ज्ञानज्ञेयार्थपर्याययोः । व्यञ्जनपर्याययोः षोढा नैगमो यथा-तट इति शब्दवाच्यस्तटीतिशब्दवाच्यसदृश इति, शब्दव्यञ्जनपर्याययोः १ घटशब्दवाच्यः पर्यायः कुम्भशब्दवाच्यसदृश इति, समभिरूढव्यञ्जनपर्याययोः २ राजपदव्युत्पत्तिनिमित्तक्रिया सुपपदव्युत्पत्तिनिमित्तक्रियासदृशीति, एवम्भूतव्यञ्जनपर्याययोः ३ भिन्नलिङ्गतटादिशब्दवाच्यपर्यायो भिन्नशब्दवाच्यसदृश इति, शब्दसमभिरूढव्यञ्जनपर्याययोः ४ संभिन्नक्रिया शब्दवाच्यसदृश इति, शब्दे [ वंभूतव्यञ्जन पर्याययोः ५ संभिन्नवर्तमानक्रिया शब्दवाच्यसदृश इति, समभिरूढैवं भूतव्यञ्जनपर्याययोः ६ व्युत्पत्तिनिमित्तक्रिया वर्तमानक्रियासदृश इति । एवं ऋजुसूत्रशब्दयोः १ ऋजुसूत्रसमभिरूढयोः २ ऋजुसूत्रवंभूतयो ३ रिति त्रिविधोऽप्यर्थव्यञ्जनपर्यायनैगमः, अष्टधा च द्रव्यपर्यायनैगमः इत्यादि स्वधिया विभाव्योदाहार्यम् ] ॥ १०४॥ * इतोऽप्रेतनं विवरणं त्रुटितं लक्ष्यते, स्याचेत् कस्यचिन्महोदयस्य सविधे निवेद्यमनुग्रहधिया प्रकाशकस्य ।। For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793