Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
कालेऽमादिपदे घटादिपदोत्तरत्वसन्देहे शाब्दबोधानुत्पादात् साक्षादप्यानुपूर्वीज्ञानं हेतुरित्यपरे । का नाम योग्यता, न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्यावर्तकत्वात् , पदार्थतावच्छेदकेन तस्यायं पयः पिबतीत्यादावसम्भवात् , वाक्यार्थस्यापूर्वत्वाच्च, नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्वं, वाक्यार्थस्यानुमेयतापत्तेः । नापि बाधकप्रमाविरहः, स्वपरसाधारणबाधकप्रमाविरहस्य दुर्जेयत्वात् , स्वरूपसतोऽस्य हेतुत्वेऽयोग्ये योग्यताक्रमाच्छाब्दभ्रमानुपपत्तेः। स्वीयबाधकप्रमाविरहस्य हेतुत्वे त्वयोग्यताभ्रमदशायां शाब्दबोधापत्तेः । न च तदा विशिष्टज्ञानसामान्यहेतो धबुद्ध्यभावस्य विरहान्न तदापत्तिः, तर्हि तद्धेतुत्वेनैव निर्वाहे योग्यताधीहेतुत्वे मानाभावात् , अस्त्वेवं लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्ज्ञानमात्रे तदभावनिश्चयस्य प्रतिबन्धकत्वाच्छाब्दप्रतिबन्धकत्वस्यापि तत एव सिद्धेः, योग्यताज्ञानविलम्बाच्च शाब्दबोपविलम्बस्यासिद्धत्वेन नव्यमतसाम्राज्यादिति चेत् , न, लौकिकसन्त्रिकर्षदोपविशेषादेरुत्तेजकत्वपक्षे बाधबुद्ध्यभावस्य प्रत्यक्षत्वादेरेव कार्यतावच्छेदकत्वाच्छाब्दत्वावच्छिन्ने योग्यताधीहेतुत्वौचित्येनोक्तमतासाम्राज्यात् , न च तत्पक्षेऽप्यस्तु शुद्धबाधबुद्ध्यभावस्य परोक्षत्वावच्छिन्नहेतुत्वं, परोक्षत्वस्य प्रत्यक्षान्यज्ञानरूपत्वे विशेष्यविशेषणभावभेदेन गौरवात् , न च जातिरूपं तत्, इच्छाघटितस्मृत्यादिसामग्रीप्रतिबध्यतावच्छेदकताघटकजात्या सङ्करात् , सम्बन्धगौरवेण स्वाश्रयान्यत्वसम्बन्धेन स्मृतित्वस्यातत्त्वात् । किश्च मुखं न चन्द्र इत्ययोग्यतानिश्चयेऽप्याहार्ययोग्यताज्ञानेन शाब्दबोधात्तदेव शाब्दधीहेतुः, न चैवं वहिना सिञ्चतीत्यादावपि तथापत्तिः, आहार्ययोग्यताज्ञाने इष्टत्वात् , तदसत्वे शाब्दबोधाभावेन तद्धेतुत्वकल्पनात् । अत एव गालिप्रदानादितोऽपि शाब्दबोधसम्भवः । न चै लौकिकान्यबाधधीसत्त्वेऽपि लौकिकयोग्यताज्ञानाच्छान्दापत्तिः,
For Private And Personal Use Only

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793