Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
भिन्नव्युत्पत्तेरेवासिद्धेः, तत्तद्व्युत्पत्तिवैशिष्टयस्य विपरीतव्युत्पन्नीयबोधसाधारण्येनातिप्रसञ्जकत्वादुभयव्युत्पन्नयोरुभयोरुक्तवाक्यान्नियमत उभयबोधापत्तेश्च । न चैकनयाभिमतव्युत्पत्तौ तदितरनयाभिमतशाब्दबोधजनकत्वाभावज्ञानस्य प्रतिबन्धकत्वाददोषः, उभयव्युत्पत्तिसमाजे परस्परप्रतिबन्धेन कस्यापि बोधस्यानापत्तेः । कथं चैवं नैयायिकः शिष्येषु व्याकरणव्युत्पत्तिमादधानो देवदत्तः पचति एकदेवदत्ताभिन्नाश्रयकपाकानुकूला भावनेति विवृणुयात् , आहार्याकाङ्क्षाज्ञानेन तथा बुद्धा परं तथा बोधयितुं नानौचितीति चेत् , सत्यम् , आहार्यत्वस्यापि परस्परमविनिगमेन तथा तथा साकासनिराकासत्वाव्यवस्थितेः । एतेनैकनययुक्त्याऽपरनयाप्रामाण्यग्रहोऽपि व्याख्यातः, अनेनैवाभिप्रायेण "णिययवयणिजसच्चा" इत्यादिना सम्मती नयवाक्यानां कात्स्न्येन साकासत्वानाकाङ्क्षत्त्वभजना समर्थिता । एवं योग्यत्वमयोग्यत्वमासन्नत्वमनासन्नत्वं |
च देशकालादिभेदेन तात्पर्यादिभेदेन च भजनीयं, वस्तुतः समभिव्याहाररूपाकासा वाक्यशक्त्यवच्छेदकतयैवोपयुज्यते | न पृथक् , घत्वावच्छिन्नप्रकारतानिरूपितटत्वावच्छिन्नप्रकारतानिरूपिताम्त्वावच्छिन्नविशेष्यताकघटविधेयककर्मत्वविशेष्यकशाब्दबोधजनकत्वप्रकारताकज्ञानत्वादिना तादृशशाब्दबोधहेतुत्वाकल्पनादाद्यवृद्धव्यवहारेण वाक्य एव शक्तिसिद्धेरनन्तरमावापोद्वापक्रमेण पदशक्तिग्रहस्य च तत्रैवोपकाराच्छक्तेश्च जनकताविशेषरूपत्वाद्विशेषपदेनैव शक्तिलक्षणाभेदानुच्छेदात् , अन्यथेश्वरेच्छारूपशक्तिवादेऽप्यगतः, केवलपदस्याननुभावकतापक्ष एव हि " पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते " इत्युक्तं युज्यत इत्युक्तं प्राक्, न चैवं द्रव्यनिक्षेपप्रयुक्तघटपदघटितवाक्याद्भावनिक्षेपविषयशाब्दबोधापत्तिः, स्वप्रयोजकनिक्षेपप्रयुक्तवाक्यशक्तिग्रहद्वारैव पदशक्तिग्रहस्य हेतुत्वाद्, द्वारद्वारिभावेन चान्यथासिद्धरयोगात् , पदार्थोपस्थितिद्वारा पद
For Private And Personal Use Only

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793