Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
54RKARISRC5642
निराबाध एच, न्यूनत्वादिदोषस्फूर्तिश्चौत्तरकालिकी वक्तृवैगुण्यमेवावेदयति, रसभङ्ग वा जनयतीति विभाव्य तदाकाङ्क्षायोग्यतासत्तिमतां पदानां समूहो वाक्यमित्येतावदेव लक्षणं सम्यगिति न्यायविदः । अथ का नामाकाका, न तावदविनाभावः, घटमानयेत्यादावभावात् , घटः कर्मत्वमित्यादावपि व्यक्त्योस्तत्सत्वाच, नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, घटमित्युक्ते आनय नय वेतिजिज्ञासोदयात् घटः कर्मत्वमित्यादौ तदभावादिति वाच्यम् । अजिज्ञासोरप्यन्वयवोधात् ,जिज्ञासायाः स्वरूपसत्या एव हेतुत्वादाकासाभ्रमाच्छाब्दबोधानुपपत्तेश्च । उच्यते, अभिधानापर्यवसानमाकासा, अभिधानं पद तस्यापर्यवसानमन्वयाननुभावकत्वं, तथा च यस्य पदस्य समभिव्याहृतयत्पदव्यतिरेकप्रयुक्तं यादृशान्वयाननुभावकत्वं तादृशान्वयाननुभवे समभिव्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकाङ्क्षति फलितम् , अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपदव्यतिरेकप्रयुक्तं, ननु कर्मत्वादिपदस्य, घटादिपदसत्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकाङ्क्षा, नतु घटः कर्मत्वमित्यादौ, यदि च मौनिश्लोके पदाभावानेदं युक्तमिति विभाव्यते, तदा यादशपदज्ञानस्य यादृशपदसमभिव्याहारज्ञानाभावप्रयुक्तं यादृशान्वयाननुभावकत्वमित्यादि वाच्यम् , इयमाकाङ्क्षा घटमित्यादावुभयपदज्ञाननिष्ठा, लाक्षणिकस्याननुभावकत्वे गङ्गायामित्यादौ ( लाक्षणिकस्याननुभावकत्वे ) त्वेकपदज्ञाननिष्ठैव, वक्ष्यमाणप्रयुक्तत्वस्य लाक्षणिकेऽपि सम्भवे तूभयतस्तथैव, तत्प्रयुक्तत्वं च यद्यपि न तजन्यत्वम् , असम्भवात् , नापि तद्व्यापकत्वं, पदज्ञाननिष्ठाननुभावकत्वस्य पदान्तरसमभिव्याहारज्ञानाभावाव्यापकत्वात् , नापि तद्व्याप्यत्वं, योग्यताज्ञानाद्यभावेन तादृशान्वयानुपधायके घटमित्यादिवाक्ये व्यभिचारात् , तथापि यादृशपदसमभिव्याहारज्ञानातिरिक्त
For Private And Personal Use Only

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793