Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 767
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥३५३।। यादृशान्वयबोधकसकलसहकारिसमवहितयादृशपदज्ञाननिष्ठयादृशान्वयानुभवानुपधायकत्वं यादृशपदसमभिव्याहारज्ञानाभाव- परिच्छेदः व्याप्यं तादृशपदस्य तादृशपदसमभिव्याहारविशिष्टं तादृशपदज्ञानस्य तादृशान्वयानुभवाभाववैशिष्ट्यमाकासा, भवति च दशमः॥ तादृशसहकारिसमवहितकर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठं कर्मत्वोद्देश्यकघटान्वयबोधाभाववैशिष्ट्य घटोपस्थापकपदसमभिव्याहारज्ञानाभावव्याप्यं, न तु कर्मत्वोपस्थापकनामपदज्ञाननिष्ठं, सत्यपि घटोपस्थापकपदसमभिव्याहारज्ञाने तादृशसकलसहकारिसमवहिते घटः कर्मत्वमित्यादिवाक्यगते कर्मत्वपदे तादृशान्वयबोधाभाववैशिष्ट्यसत्वेन व्यभिचारात् । न च कर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठतादृशबोधाभाववैशिष्ट्यमपि न तदभावव्याप्यं, सत्यपि योग्यतादिज्ञाने घटमित्यादितोऽपि विपरीतव्युत्पन्नीयबोधाभावादिति वाच्यम् । व्याकरणसंस्कृतपुरुषीयत्वेन निरुक्तान्वयबोधविशेषणात् , विपरीतव्युत्पन्नस्य तु निरुक्ताकासाभ्रमादेव शाब्दबोधः। अत एव निरुक्तव्याप्यत्वरूपप्रयुक्तत्वघटिताकासाया ज्ञानमेव कारणम् , इत्थं च सद्व्युत्पनस्य घटमित्यादित एव, विपरीतव्युत्पन्नस्य तु घटः कर्मत्वमित्यादित एव बोधः । यत्तु यत्पदं यत्पदेन सह यादृशान्वयानुभवजनकं तत्पदस्य तत्पदसमभिव्याहार आकाक्षा, तज् ज्ञानं कारणं, प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविरहरूपा तु सा स्वरूपसती कारणं, सद्व्युत्पन्नीयशाब्दबोधे घटादिनामबोधे घटादिनामपदसमभिव्याहृतविभक्तिज्ञान, विपरीतव्युत्पबीयबोधे च तत्समभिव्याहृतकर्मत्वादिपदज्ञानं कारणमिति नातिप्रसङ्ग इति मञ्जरीकारादिमतं, तन्न, द्वयोरपि द्विविधज्ञानाच्छाब्दबोधापत्तेः । अथ व्युत्पत्तिरपि तत्तज्ञानसहकारिणी, तथा च तत्तदानुपूर्वीज्ञानं तत्तदानुपूर्वीज्ञाने व्याकरणसंस्कृत-16 पुरुषीयशाब्दबोधजनकत्वज्ञानं च तत्तदानुपूर्वीज्ञानजन्यशाब्दबोघहेतुरिति फलितमिति चेत्, न, निरुक्तप्रयुक्तत्वघटिता ॥३५३॥ ACCORDARA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793