Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
CA% A
कांक्षाज्ञानत्वेन कारणत्वे लाघवात् , अनन्यथासिद्धत्वादिघटितजनकत्वज्ञानत्वस्य गुरुत्वात् , कारणाभावप्रयुक्तः कार्याभाव इति धीसाक्षिकः स्वरूपसम्बन्धविशेषः प्रयुक्तत्वमिति मते सुतरां लाघवम् , अत्र घत्वाद्यवच्छिन्नप्रकारतानिरूपितटत्वाद्यवच्छिन्नप्रकारतानिरूपिताम्त्वाद्यवच्छिन्नप्रकारताकज्ञानत्वेन घटमित्याद्यानुपूर्वीज्ञानस्य घटादिपदव्यतिरेकप्रयुक्तान्वयाननुभावकममादिपदमितिज्ञानसहितस्य तादृशानुपूर्वीज्ञानविशिष्टघटादिविधेयककर्मत्वादिबोधे हेतुत्वं, लक्षणे च यादृशेति घविशिष्टटत्वाद्यवच्छिन्नपरं, सामान्यतो वृत्या घटोपस्थापकनामपदसमभिव्याहृतकर्मत्वोपस्थापकविभक्तिज्ञानं तादृशाननुभावकत्वज्ञानसहितं तथेति तु न युक्तं, वृत्त्या घटोपस्थापकत्वस्याव्यावर्तकत्वात् , तत्तत्काले तत्तत्पुरुषस्येत्युक्तौ च तत्तद्व्यक्तित्वे पर्यवसानादिति मन्तव्यम् । अथायमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राज्ञ इत्यस्य पुरुषान्वयाननुभावकत्वं पुरुषपद समभिव्याहारेऽप्यस्तीति राज्ञ इत्यादिवाक्येऽपि पुरुषान्वयानुभावकत्वं न स्यादिति चेत् , न, अत्र पूर्वोत्तरभावरूपसमभिव्याहारसत्त्वेऽप्येकवाक्यताभिप्रायविषयत्वरूपसमभिव्याहाराभावात् सविभक्तिकपदयोस्तात्पर्यस्यापि तस्यैव वा समभिव्याहाराभावात् सविभक्तिकपदयोस्तात्पर्यस्यापि तस्यैव वा समभिव्याहारत्वाद्राजपदनिष्ठाकाङ्क्षायाः ससम्बन्धिकपुत्रादिपदेन सह झटिति तेन तात्पर्यग्रहसमवहितत्वमुत्थितत्वं विपर्ययातदितरपदेनोत्थाप्यत्वमिति विशेषः । ननु राज्ञ इत्यस्य तात्पर्यभ्रमेण पुरुषेणान्वयबोधे पुत्रेण तात्पर्यग्रहेऽपि तेनान्वयबोधो न स्यादिति चेत् , न, तादृशान्वयाननुभावकत्वस्य सत्त्वाद्राज्ञः पुत्र इति बोधे जननीये तादृशबोधाभावस्यैव तत्त्वात् , न चैवं पुत्रेणान्वयबोधे पुरुषे गाप्याकांक्षा स्यात् तात्पर्यस्याकाङ्क्षाघटकत्वे तस्याभावात् , तदघटकत्वे इष्टत्वात् , तात्पर्यज्ञानाभावाच न तथाबोध इति । न चैवं तात्पर्येण गतार्थत्वं, घटः कर्मत्वमित्यादौ
RSA
For Private And Personal Use Only

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793