Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsuri Gyanmandir
परिच्छेदः दशमः॥
अष्टसहस्त्रीस्य साध्यत्वे स्वेष्टविघातात् , अदृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसङ्गानिदर्शनस्य । दृष्टेतरविशेषाश्रयसामान्यविवरणम् ॥
साधनेपि स्वाभिमतविशेषसिद्धिः कुतः स्यात् ?. अधिकरणसिद्धान्तन्यायादिति चेत् , कोयमधिकरणसिद्धान्तो नाम?, यत्सिद्धावन्यप्रकर
णसिद्धिः सोधिकरणसिद्धान्तः। ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धौ प्रकरणाजगन्निर्माणसमर्थः ॥३३९॥
समस्तकारकाणां प्रयोक्ता सर्वविदलुप्तशक्तिर्विभुरशरीरत्वादिविशेषाश्रय एव सिध्यतीति चेत् , स्यादेवं, यदि सकलजगन्निर्माणसमर्थेनैकेनसमस्तकारकाणां प्रयोक्तत्वसर्वज्ञत्वादिविशेषोपेतेनाविनाभावि दृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित् सिध्येत् । न च सिध्यति, अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषेण तस्य व्याप्तत्वसिद्धेः समर्थनात् । तथा सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिनानैकान्तिकं साधनं, साध्यविकलं च निदर्शनम् । सरागासर्वज्ञकर्तृकत्वे साध्येपसिद्धान्तः । सर्वथा कार्यत्वं च साधनं तन्वादावसिद्धं, तस्य कथंचित्कारणत्वात् । कथंचित्कार्यत्वं तु विरुद्धं, सर्वथा बुद्धिमन्निमित्तत्वासाध्याद्विपरीतस्य कथंचिवुद्धिमन्निमित्तत्वस्य साधनात् । तथा पक्षोप्यनुमानबाधितः स्यात् , ' अकृत्रिमं जगत् , दृष्टकर्तृकविलक्षणत्वात् खादिवत् ' इत्यनुमानस्य तद्बाधकस्यान्यत्र समर्थितत्वात् । इति सूक्तं, नेश्वरकृतः संसार इति । ननु यदि कर्मबन्धानुरूपतः संसारः स्यान्न तर्हि केषांचिन्मुक्तिरितरेषां संसारश्व, कर्मबन्धनिमित्ताविशेषादिति चेत् . न, तेषां शुद्ध्यशुद्धितः प्रति मुक्तीतरसंभवादात्मनाम् । न हि जीवाः शश्वदशुद्धित एव व्यस्थिताः स्याद्वादिना याज्ञिकानामिव, कामादिस्वभावत्वनिराकरणात् , तत्स्वभावत्वे कदाचिदौदासीन्योपलम्भविरोधात् । नापि शुद्धित एवावस्थिताः कापिलानामिव, प्रकृतिसंसर्गेपि तत्र कामाद्युपलम्भविरोधात् , प्रकृतावेव कामायुपलम्भे पुरुषकल्पनावैयात् , तदुपभोगस्यापि तत्रैव संभवात् । न ह्यन्यः कामयतेऽन्यः काममनुभवतीति वक्तुं युक्तम् । नापि सर्वे संभवद्विशुद्धय एव जीवाः
*60-%EREOS
Vi॥३३९॥
For Private And Personal Use Only

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793