Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥३४८ ॥
6 +6 +
www.kobatirth.org
एतेन कुचिकापवरकसाधारणस्थूलदेशपक्षकमण्यनुमानमपास्तम्, अमेदानुमितेरेव विचार्यत्वात् । प्रत्यक्षत्वप्रसक्तेः प्रत्यक्षप्रमाणत्वप्रसक्तेः सम्भवत्येवेत्यत्र संवादनैकान्त इति योगः । लिङ्गज्ञानवत् धूमदर्शनानन्तरधूमज्ञानवत्, पारम्पर्येणेति अग्निस्वलक्षणाद्भूमस्वलक्षणं ततो धूमनिर्विकल्पं ततो धूमविकल्प उत्पद्यत इत्येवमुत्पत्तिपारम्पर्य बोध्यम् । अर्थप्रापकत्वं च लिङ्गज्ञानस्य स्वविषयप्राप्तिद्वारा तत्प्रतिबद्धसाध्यप्राप्तिपरम्परयेति बोध्यम् । तदाभासशून्ययोरपि अवस्तुसामान्यगोचरयोरपि, तथा मिथ्या, यावदप्राप्तं तावद्विधेयमित्यनूद्य विधेयभावे कामचारमभिप्रेत्याह भाष्यकृत्, प्रमाणमेव वेत्यादि, फलज्ञानस्यापि फलीभूतज्ञानस्यापि प्रमाणत्वोपगमादिति धारावाहिकप्रामाण्यव्यवस्थितेरित्यर्थः । अनिर्णीतनिर्णयात्मकत्वात् निर्विकल्पकानिश्चितनीपादिनिश्श्रयात्मकत्वात्, अधिगमोऽपि निर्विकल्पकानन्तरसमुद्भूतो व्यवसायोsपि, प्राथमिकल्पिको मुख्यवृत्त्या प्रमाणभूतः, धूमकेतुलैङ्गिकवदिति प्रत्यक्षनिश्चितेऽग्नौ तदनुमितिवदित्यर्थः । ज्वालादिविशेषादिति ज्वालादिविशेषस्य धूमकेतुसम्बन्धित्वेन ग्रहादेकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणस्यौत्सर्गिकत्वादिति भावः । स्मृतेरुपयोगविशेषात् प्रमाणमिति सम्बन्धस्मरणादेर्व्याप्तिप्रत्यभिज्ञानादिफलोपयोगे प्रामाण्यमित्यर्थः । फलीभूतस्मृतेरपि याथार्थ्यं तु विषयाबाधादेव दुर्निवारं, तस्याः प्रमात्वस्यानुभवप्रमात्वपारतन्त्र्येऽपि व्याप्तिज्ञानप्रमात्वपरतन्त्रानुमितिप्रमात्ववदविरोधात्, तद्वदेव ' याचितकमण्डन ' न्यायेनायथार्थत्वाव्यवस्थितेरित्यादिकमुपपादितमन्यत्र । ' तस्येति तस्य सर्वोपसंहारेण व्याप्तिज्ञानादिरूपोहस्य, प्रत्यक्षानुपलम्भजन्यत्वाद्विशेषान्वयव्यतिरेकग्रहसामान्यव्यभिचारनिर्णयजन्यत्वात्, अविचारकत्वाचेति उहोपयोगे तु लाघवादिविचारस्यापि प्रवेशान्न दोष इति भावः ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
4454646
परिच्छेदः
दशमः ॥
||३४८॥

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793