Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 741
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir की अष्टसहस्री| विवरणम्।। परिच्छेदः दशमः॥ ॥३४॥ ग्धोपाधित्वस्य दुर्वारत्वेन तदाहितव्याभिचारसंशयसत्त्वेनानुमानानवताराल्लाघवाद् व्यभिचारज्ञानत्वेनैव विरोधित्वात् पक्षतत्समयोरपि व्यभिचारसंशयस्य तथात्वादिति वाच्यम् , प्रकृते कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवतर्कावतारे व्यभिचारसंशयस्याविरोधित्वात् , अनुकूलतर्कानवतार एव व्यभिचारसंशयाधायकस्य सन्दिग्धोपाधेर्दोषत्वादित्याहुः। 'वितनुकरणस्येति' ईश्वरः बुद्धीच्छाप्रयत्नवान्न भवति, वितनुकरणत्वान्मुक्तात्मवदिति प्रयोगः । परेषां तु जैनानां तु, तस्य शरीरेन्द्रियाद्युत्पत्तिप्राक्कालवर्तिन आत्मनः, सशरीरस्यैवेति अत्र तैजसकार्मणाभ्यामिति शेषः । तत्प्रतिपत्तिसद्भाचाचेति तथा च विकल्पसिद्धधर्म्युपगमानाश्रयासिद्धिरिति भावः । नेश्वर इति यद्यप्यशरीरत्वं शरीरपरिग्रहात्यन्ताभावोऽनाद्यनंतत्वेन व्याप्त इति हेतोर्विरुद्धत्वं, तथाप्यात्मनिष्ठस्य शरीरपरिग्रहाभावस्य ध्वंसपर्यवसितस्य ग्रहान्न दोष इति बोध्यम् । ' एतेनेति' ईश्वरेऽशरीरत्वस्य कादाचित्कत्वानुमानप्रदर्शनेनेत्यर्थः । कथं वाऽपाणिपादत्वप्रतिपादक एवागमः प्रदेशान्तरे ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयन् स्वाङ्गैरेव न विरुन्ध्यात् । भूतावेशन्यायेन तस्य ब्रह्मादिशरीरपरिग्रहोपपत्तिरिति चेद्, दूराद् भ्रान्तोऽसि, भूतावेशस्यापि स्वीयवैक्रियशरीरेणात्मान्तरशरीरे भूतप्रवेशरूपस्य तददृष्टहेतुकत्वात् , अन्यथात्मविभुत्वपक्षे सर्वत्र सर्वावेशापत्तेः, तस्माददृष्टहेतुकयोराबेशपरिग्रहयोर्मध्येनैकतरस्यापीश्वरे सम्भव इति सुष्टुक्तं श्रीहेमसूरिभिः।। " धर्माधर्मों विना नाङ्गं, विनाङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ॥१॥” इत्यादि, अथावेशे आविशतोऽदृष्टं न हेतुः किं त्वावेशाधिकरणस्य ततस्तद्गतयोरेव सुखदुःखयोरुत्पादनात् तत्परादृष्टेनेश्वरस्य ब्रह्मादिशरीरग्रहोपपत्तिरिति चेत् , न, आवेशे आविशतोऽप्यदृष्टस्य तद्गतबन्धोदयनिर्जरादिनिर्वाहकस्य हेतुत्वेनोभयादृष्टजन्यत्वव्य ॥३४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793