Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 748
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 56446064562 कारव्यवसायशम्यं निर्विशेषवस्तुमात्रग्रहणं दर्शनमिन्द्रियादिसन्निकर्षमात्रं श्रोत्रादिवृत्तिमात्रं वा यथोक्तपरिच्छित्ति प्रति साधकतम, तद्धावाभावयोस्तस्यास्तद्वत्तापायात् । यद्भावे हि प्रमितेर्भाववत्ता यदभावे चाभाववत्ता तत्तत्र साधकतम युक्तं, भावाभावयोईयोस्तद्वत्ता साधकतमत्वमिति वचनात् । न चैतद्दर्शनादिषु संभवति, तद्भावेपि स्वार्थप्रमितेः क्वचिदभावात् , संशयादेरन्यथानुपपद्यमानत्वात् , तदभावेपि च विशेषणज्ञानाद्विशेष्यप्रमितेः सद्भावोपगमात् । ननु ज्ञानस्याप्येवं साधकतमत्वं मा भूत् संशयादिज्ञाने सत्यपि यथार्थप्रमितेरभावात् तदभावेऽपि च भावादिति चेत् ,न, तत्त्वग्रहणात् । तत्त्वज्ञानं प्रमाणमिति हि निगद्यमाने मिथ्याज्ञानं संशयादि मत्याद्याभासं व्यवच्छिद्यते । ततोऽस्य साधकतमत्वं यथोक्तमुपपद्यते एव । नन्वेवमपि तत्त्वज्ञानान्तरस्य प्रमेयस्य प्रमातुश्चात्मनः स्वार्थप्रमिति प्रति साधकतमत्वातू प्रमाणत्वं कुतो न भवेदिति चेत् , न, तस्य कर्मत्वेन कर्तृत्वेन च साधकतमत्वासिद्धेस्तत्सिद्धौ करणत्वप्रसङ्गात् । करणस्य तत्त्वज्ञानात्मनः प्रमाणत्वे को विरोधः ? तदेवं सकलप्रमाणव्यक्तिव्यापि साकल्येनाप्रमाणव्यक्तिभ्यो व्यावृत्तं प्रतीतिसिद्धं तत्त्वज्ञानं प्रमाणलक्षणं, तस्य सुनिश्चितासंभवबाधकत्वात् , सम्भवबाधकस्य संशयितासंभवबाधकस्य कदाचित्कचित्कस्यचिनिश्चितासंभवद्बाधकस्य च प्रमाणत्वायोगात्, प्रवृत्तिसामर्थ्यस्यार्थवत्कियाप्राप्तेरदुष्टकारणजन्यत्वस्य लोकसंमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवार्तिके प्रपञ्चतोऽपास्तत्वात् । ननु च तत्त्वज्ञानस्य सर्वथा प्रमाणत्वसिद्धरनेकान्तविरोध इति न मन्तव्यं, बुद्धेरनेकान्तात् , येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति निरूपणात् । तेन प्रत्यक्षतदाभासयोरपि प्रायशः संकीर्णप्रामाण्येतरस्थितिरुन्नेतन्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभताकारावभासनात् , तथोपहताक्षादेरपि संख्यादिविसंवादेपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभृताकारावभासनात् , तथोपहताक्षादेरपि संख्यादिविसंवादेपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । कथमेवं कचित्प्रमाणव्यपदेश एव कचिदप्रमाण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793