Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 713
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहली विवरणम् ।। ॥३२६ ॥ www.kobatirth.org विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ॥ अवाच्यतैकान्तेप्युक्ति- नवाच्यमिति युज्यते ॥९०॥ दैवेतरयोः सहैकान्ताभ्युपगमे व्याघातादवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः श्रेयसी तद्विषां प्रमाणविरुद्धाभिधायित्वात ॥ ९०॥ कीदृशी स्याद्वादनीतिरत्रेत्याहुः— अबुद्धिपूर्वापेक्षाया- मिष्टानिष्टं स्वदैवतः ॥ बुद्धिपूर्वव्यपेक्षाया - मिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ Acharya Shri Kailassagarsuri Gyanmandir ततोऽतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं बुद्धिपूर्वापेक्षापायात् तत्र पुरुषकारस्याप्रधानत्वात् देवस्य प्राधान्यात् । तद्विपरीतं पौरुषापादितं बुद्धिपूर्वव्यपेक्षानपायात्, तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात्, न पुनरन्यतरस्याभावात् अपेक्षाकृतत्वात्तद्व्यवस्थायाः । तथापेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्यामर्थसिद्धिः । इति स्यात्सर्वं दैवकृतमबुद्धिपूर्वापेक्षातः । स्यात् पौरुपकृतं बुद्धिपूर्वापेक्षातः । स्यादुभयकृतं क्रमार्पिततद्द्द्वयात् । स्यादवक्तव्यं सहार्पिततद्द्द्वयात् । स्याद्दैवकृतावक्तव्यमबुद्धिपूर्वापेक्षया सहार्पिततद्द्द्वयात् । स्यात्पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्द्द्वयात् । स्यात्तदुभयावक्तव्यमेव क्रमेतरार्पिततद्द्द्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् ॥ ९१ ॥ देवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिरिवाज्ञानखेदं हरन्ती ॥ बन्धं प्रध्वंसमद्धा सकलमपि बलादानयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा हगवगमभृतां निर्वृतिं वः प्रदेयात् ॥ १॥ ॥ इत्याप्तमीमांसालङ्कृतावष्टमः परिच्छेदः ॥८॥ For Private And Personal Use Only परिच्छेदः अष्टमः ॥ ॥३२६ ॥

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793