________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहली
विवरणम् ।।
॥३२६ ॥
www.kobatirth.org
विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ॥ अवाच्यतैकान्तेप्युक्ति- नवाच्यमिति युज्यते ॥९०॥ दैवेतरयोः सहैकान्ताभ्युपगमे व्याघातादवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः श्रेयसी तद्विषां प्रमाणविरुद्धाभिधायित्वात ॥ ९०॥ कीदृशी स्याद्वादनीतिरत्रेत्याहुः—
अबुद्धिपूर्वापेक्षाया- मिष्टानिष्टं स्वदैवतः ॥ बुद्धिपूर्वव्यपेक्षाया - मिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततोऽतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं बुद्धिपूर्वापेक्षापायात् तत्र पुरुषकारस्याप्रधानत्वात् देवस्य प्राधान्यात् । तद्विपरीतं पौरुषापादितं बुद्धिपूर्वव्यपेक्षानपायात्, तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात्, न पुनरन्यतरस्याभावात् अपेक्षाकृतत्वात्तद्व्यवस्थायाः । तथापेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्यामर्थसिद्धिः । इति स्यात्सर्वं दैवकृतमबुद्धिपूर्वापेक्षातः । स्यात् पौरुपकृतं बुद्धिपूर्वापेक्षातः । स्यादुभयकृतं क्रमार्पिततद्द्द्वयात् । स्यादवक्तव्यं सहार्पिततद्द्द्वयात् । स्याद्दैवकृतावक्तव्यमबुद्धिपूर्वापेक्षया सहार्पिततद्द्द्वयात् । स्यात्पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्द्द्वयात् । स्यात्तदुभयावक्तव्यमेव क्रमेतरार्पिततद्द्द्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् ॥ ९१ ॥ देवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिरिवाज्ञानखेदं हरन्ती ॥ बन्धं प्रध्वंसमद्धा सकलमपि बलादानयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा हगवगमभृतां निर्वृतिं वः प्रदेयात् ॥ १॥ ॥ इत्याप्तमीमांसालङ्कृतावष्टमः परिच्छेदः ॥८॥
For Private And Personal Use Only
परिच्छेदः
अष्टमः ॥
॥३२६ ॥