________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रस्तेऽपि न्यस्तहस्ते धनुषि घनजराजर्जरे कृष्णसैन्ये, यद्गात्रस्नात्रनीरादजनि शुभमसौ पातु शङ्खश्वरो माम् अष्टमे दैवपुरुषकारैकान्तनिरासः, स च ग्रन्थः सुगमप्रायः, इदं तु चिन्त्यम् ॥ ८८ ॥
॥१॥
पौरुषादेव सिद्धिश्चेत्, पौरुषं दैवतः कथम् ? ॥ पौरुषाच्चेद मोघं स्यात्, सर्वप्राणिषु पौरुषम् ॥ ८९ ॥
पौरुषादेवार्थस्य सिद्धिरिति वदत्तोपि कथं पौरुषं दैवतः स्यात् ? प्रतिज्ञाहानिप्रसङ्गात् । तद्धि पौरुषं विना दैवसंपदा न स्यात्, 'तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशाः सन्ति यादृशी भवितव्यता ॥ १ ॥ ' इति प्रसिद्धेः । तत्सर्व बुद्धिव्यवसायादि पौरुषं पौरुषापादितमिति चेत्तर्ह्यमोघमेव सर्वप्राणिषु पौरुषं भवेत् । तथैवेति चेत्, तद्व्यभिचारदर्शिनो न वै श्रद्दधीरन् । स्याम्मतमेतत् -- पौरुषं द्विविधं सम्यग्ज्ञानपूर्वकं मिथ्याज्ञानपूर्वकं च । तत्र मिथ्याज्ञानपूर्वकस्य पौरुपस्य व्यभिचारदर्शनेपि सम्यगवबोधनबन्धनस्य न व्यभिचारः । ततः सफलमेव पौरुषमिति । तदसत् दृष्टकारणसामग्री सम्यगव बोधनिबन्धनस्यापि पौरुषस्य व्यभिचारदर्शनात् कस्यचिदुपेयाप्राप्तेरदृष्टकारणकलापसम्यगवबोधस्य तु साक्षादसकलविदामसंभवात् तन्निबन्धनपौरुषाभावात् । प्रमाणान्तरातदवबोधस्य संभवेपि किमसावदृश्यः कारणकलापः कारणशक्तिविशेषः, पुण्यपापविशेषो वा ?, प्रथमपक्षे तत्सम्यगवगमनिमित्तकस्यापि पौरुषस्य व्यभिचारदर्शनान्नामोघत्वसिद्धिः । द्वितीयपक्षे तु दैवसहायादेव पौरुषात् फलसिद्धिः दैवसदवगमनिबन्धनादेव पौरुषादुपेयप्राप्तिव्यवस्थितेः । तदपरिज्ञानपूर्वकादपि कदाचित्फलोपलब्धेश्च न सम्यगवबोधनिबन्धनः पौरुषैकान्तः । इत्यसौ परित्याज्य एव दैवैकान्तवत् ।। ८९ ।।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir